गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः । श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ।। ७.४४.
शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः । द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः । निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान् ।। ७.४४.
कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः । अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ।। ७.४४.
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः । एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ।। ७.४४.
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः । प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ।। ७.४४.
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा । सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ।। ७.४४.
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः । हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ।। ७.४४.
ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः । तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ।। ७.४४.
तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः । आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ।। ७.४४.
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम । भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ।। ७.४४.
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः । सम्भूय च मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः ।। ७.४४.
तथा वदति काकुत्स्थे अवधानपरायणाः । उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ।। ७.४४.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुश्चत्वारिंशः सर्गः
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् । उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ।। ७.४५.
सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा । पौराणां मम सीतायां यादृशी वर्तते कथा ।। ७.४५.
पौरापवादः सुमहांस्तथा जनपदस्य च । वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ।। ७.४५.
अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् । सीता ऽपि सत्कुले जाता जनकानां महात्मनाम् ।। ७.४५.
जानासि त्वं यथा सौम्य दण्डके विजने वने । रावणेन हृता सीता स च विध्वंसितो मया ।। ७.४५.
तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति । अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ।। ७.४५.
प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा । प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः । अपापां मैथिलीमाह वायुश्चाकाशगोचरः ।। ७.४५.
चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा । ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ।। ७.४५.
एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ । लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ।। ७.४५.
अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् । ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ।। ७.४५.
अयं तु मे महान्वादः शोकश्च हृदि वर्तते । पौरापवादः सुमहांस्तथा जनपदस्य च ।। ७.४५.
अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् । पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ।। ७.४५.
अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते । कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ।। ७.४५.
अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः । अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ।। ७.४५.
तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे । नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतो ऽधिकम् ।। ७.४५.
श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् । आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ।। ७.४५.
गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः । आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ।। ७.४५.