समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम्। तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम्
शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया। अभिप्रायं तु विज्ञाय देवतानां पितामहः
विरोधं जनयामास तयोः सत्यवतां वरः। विरोधे तु महद् युद्धमभवद् रोमहर्षणम्
शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः। तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम्
हुंकारेण महादेवः स्तम्भितोऽथ त्रिलोचनः। देवैस्तदा समागम्य सर्षिसङ्घः सचारणैः
याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ। जृम्भितं तद् धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः
अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तथा। धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाः
देवरातस्य राजर्षेर्ददौ हस्ते ससायकम्। इदं च वैष्णवं राम धनुः परपुरंजयम्
ऋचीके भार्गवे प्रादाद् विष्णुः स न्यासमुत्तमम्। ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः
पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः। न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते
अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः। वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम्। क्षत्रमुत्सादयं रोषाज्जातं जातमनेकशः
पृथिवीं चाखिलां प्राप्य कश्यपाय महात्मने। यज्ञस्यान्तेऽददं राम दक्षिणां पुण्यकर्मणे
दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः। श्रुत्वा तु धनुषो भेदं ततोऽहं द्रुतमागतः
तदेवं वैष्णवं राम पितृपैतामहं महत्। क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम्
योजयस्व धनुःश्रेष्ठे शरं परपुरंजयम्। यदि शक्तोऽसि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः
thumb|षट्सप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्सप्ततितमः सर्गः ॥१-
श्रुत्वा तु जामदग्न्यस्य वाक्यं दाशरथिस्तदा। गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत्
कृतवानसि यत् कर्म श्रुतवानस्मि भार्गव। अनुरुध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः
वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव। अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम्
इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम्। शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः
आरोप्य स धनू रामः शरं सज्यं चकार ह। जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीदिदम्
ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च। तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम्
इमां वा त्वद्गतिं राम तपोबलसमर्जितान्। लोकानप्रतिमान् वापि हनिष्यामीति मे मतिः
न ह्ययं वैष्णवो दिव्यः शरः परपुरंजयः। मोघः पतति वीर्येण बलदर्पविनाशनः
वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः। पितामहं पुरस्कृत्य समेतास्तत्र सर्वशः
गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः। यक्षराक्षसनागाश्च तद् द्रष्टुं महदद्भुतम्
जडीकृते तदा लोके रामे वरधनुर्धरे। निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत
तेजोभिर्गतवीर्यत्वाज्जामदग्न्यो जडीकृतः। रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह
काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा। विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत्
सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम्। तदाप्रभृति काकुत्स्थ कृता मे काश्यपस्य ह