तव शासनमाज्ञाय गतो ऽस्मि भवनं प्रति । उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ।। ७.४१.
निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना । निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ।। ७.४१.
ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि । रावणे सगणे चैव सपुत्रे सहबान्धवे ।। ७.४१.
स त्वं रामेण लङ्कायां निर्जितः परमात्मना । वह सौम्य तमेव त्वमहमाज्ञापयामि ते ।। ७.४१.
परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् । वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ।। ७.४१.
सो ऽहं शासनमाज्ञाय धनदस्य महात्मनः । त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ।। ७.४१.
अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया । चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ।। ७.४१.
एवमुक्तस्तदा रामः पुष्पकेण महाबलः । उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ।। ७.४१.
यद्येवं स्वागतं ते ऽस्तु विमानवर पुष्पक । आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ।। ७.४१.
लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः । पूजयित्वा महाबाहू राघवः पुष्पकं तदा ।। ७.४१.
गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा । सिद्धानां च गतौ सौम्य मा विषादेन योजय । प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ।। ७.४१.
एवमस्त्विति रामेण पूजयित्वा विसर्जितम् । अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ।। ७.४१.
एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि । भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ।। ७.४१.
विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति । अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ।। ७.४१.
अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम् । जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ।। ७.४१.
अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः । हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ।। ७.४१.
काले वर्षति पर्जन्यः पातयन्नमृतं पयः । वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ।। ७.४१.
ईदृशो ऽनश्वरो राजा भवेदिति नरेश्वरः । कथयन्ति पुरे राजन्पौरजानपदास्तथा ।। ७.४१.
एता वाचः सुमधुरा भरतेन समीरिताः । श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ।। ७.४१.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकचत्वारिंशः सर्गः
स विसृज्य ततो रामः पुष्पकं हेमभूषितम् । प्रविवेश महाबाहुरशोकवनिकां तदा ।। ७.४२.
चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि । देवदारुवनैश्चापि समन्तादुपशोभिताम् ।। ७.४२.
चम्पकाशोकपुन्नागमधूकपनसासनैः । शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ।। ७.४२.
लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः । मन्दारकदलीगुल्मलताजालसमावृताम् ।। ७.४२.
प्रियङ्गुभिः कदम्बैश्च तथा च वकुलैरपि । जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ।। ७.४२.
सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः । दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ।। ७.४२.
तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः । चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः ।। ७.४२.
कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः । शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ।। ७.४२.
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः । नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ।। ७.४२.
सुरभीणि च पुष्पाणि माल्यानि विविधानि च । दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ।। ७.४२.