तेषामेवं ब्रुवाणानां वानराणां च राक्षसाम् । हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत् ।। ७.४०.
स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा । भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ।। ७.४०.
वायद्रामकथा वीर चरिष्यति महीतले । तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ।। ७.४०.
यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन । तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ।। ७.४०.
तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो । उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ।। ७.४०.
एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् । उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ।। ७.४०.
एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः । चरिष्यति कथा यावदेषा लोके च मामिका । तावत्ते भविता कीर्तिः शरीरे ऽप्यसवस्तथा ।। ७.४०.
लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ।। ७.४०.
लोके च मामिका । एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे । नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम् ।। ७.४०.
ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः । वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ।। ७.४०.
तेनोरसि निबद्धेन हारेण महता कपिः । रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ।। ७.४०.
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः । प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ।। ७.४०.
सुग्रीवः स च रामेण निरन्तरमुरोगतः । विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ।। ७.४०.
सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः । सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ।। ७.४०.
कृतप्रसादास्तेनैवं राघवेण महात्मना । जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ।। ७.४०.
ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् । वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ।। ७.४०.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चत्वारिंशः सर्गः
विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् । भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ।। ७.४१.
अथापराह्णसमये भ्रातृभिः सह राघवः । शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम् ।। ७.४१.
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् । कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ।। ७.४१.
तव शासनमाज्ञाय गतो ऽस्मि भवनं प्रति । उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ।। ७.४१.
निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना । निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ।। ७.४१.
ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि । रावणे सगणे चैव सपुत्रे सहबान्धवे ।। ७.४१.
स त्वं रामेण लङ्कायां निर्जितः परमात्मना । वह सौम्य तमेव त्वमहमाज्ञापयामि ते ।। ७.४१.
परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् । वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ।। ७.४१.
सो ऽहं शासनमाज्ञाय धनदस्य महात्मनः । त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ।। ७.४१.
अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया । चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ।। ७.४१.
एवमुक्तस्तदा रामः पुष्पकेण महाबलः । उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ।। ७.४१.
यद्येवं स्वागतं ते ऽस्तु विमानवर पुष्पक । आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ।। ७.४१.
लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः । पूजयित्वा महाबाहू राघवः पुष्पकं तदा ।। ७.४१.