एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः । वज्राणि च महार्हाणि सस्वजे च नरर्षभः ।। ७.३९.
ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः । मांसानि च सुमृष्टानि मूलानि च फलानि च ।। ७.३९.
एवं तेषां निवसतां मासः साग्रो ययौ तदा । मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ।। ७.३९.
रामो ऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः । राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ।। ७.३९.
एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् । वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ।। ७.३९.
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् । रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ।। ७.३९.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनचत्वारिंशः सर्गः
तथा स्म तेषां वसतामृक्षवानररक्षसाम् । राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ।। ७.४०.
गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः । पालयस्व सहामात्यो राज्यं निहतकण्टकम् ।। ७.४०.
अङ्गदं च महाबाहो प्रीत्या परमया युतः । पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ।। ७.४०.
सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् । कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ।। ७.४०.
वीरं शतवलिं चैव मैन्दं द्विविदमेव च । गजं गवाक्षं गवयं शरभं च महाबलम् । पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ।। ७.४०.
ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् । ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ।। ७.४०.
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ।। ७.४०.
एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः । विभीषणमुवाचाथ रामो मधुरया गिरा ।। ७.४०.
लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम । पुरस्य राक्षसानां च स्वभ्रातुस्सम्मतो ह्यसि ।। ७.४०.
मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन । बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ।। ७.४०.
अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया । स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ।। ७.४०.
रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः । साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ।। ७.४०.
तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च । माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ।। ७.४०.
तेषामेवं ब्रुवाणानां वानराणां च राक्षसाम् । हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत् ।। ७.४०.
स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा । भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ।। ७.४०.
वायद्रामकथा वीर चरिष्यति महीतले । तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ।। ७.४०.
यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन । तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ।। ७.४०.
तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो । उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ।। ७.४०.
एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् । उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ।। ७.४०.
एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः । चरिष्यति कथा यावदेषा लोके च मामिका । तावत्ते भविता कीर्तिः शरीरे ऽप्यसवस्तथा ।। ७.४०.
लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ।। ७.४०.
लोके च मामिका । एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे । नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम् ।। ७.४०.
ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः । वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ।। ७.४०.