ततः प्रयाते जनके केकयं मातुलं प्रभुः । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.३८.
इदं राज्यमहं चैव भरतश्च सलक्ष्मणः । आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ ।। ७.३८.
राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति । तस्माद्गमनमद्यैव रोचते तव पार्थिव ।। ७.३८.
लक्ष्मणेनानुयात्रेण पृष्ठतो ऽनुगमिष्यते । धनमादाय विपुलं रत्नानि विविधानि च ।। ७.३८.
युधाजित्तु तथेत्याह गमनं प्रति राघवम् । रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ।। ७.३८.
प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः । रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ।। ७.३८.
लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः । हते ऽसुरे यथा वृत्रे विष्णुना सह वासवः ।। ७.३८.
तं विसृज्य ततो रामो वयस्यमकुतोभयम् । प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ।। ७.३८.
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् । उद्योगश्च कृतो राजन्भरतेन त्वया सह ।। ७.३८.
तद्भवानद्य काशेय पुरीं वाराणसीं व्रज । रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ।। ७.३८.
एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात् । पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ।। ७.३८.
विसर्जयामास तदा कौसल्यानन्दवर्धनः । राघवेणाभ्यनुज्ञातः काशीशो ऽप्यकुतोभयः । वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ।। ७.३८.
विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् । प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ।। ७.३८.
भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता । धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ।। ७.३८.
युष्माकं चानुभावेन तेजसा च महात्मनाम् । हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ।। ७.३८.
हेतुमात्रमहं तत्र भवतां तेजसा हतः । रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ।। ७.३८.
भवन्तश्च समानीता भरतेन महात्मना । श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ।। ७.३८.
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् । कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ।। ७.३८.
प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः । दिष्ट्यां त्वं विजयी राम स्वराज्ये ऽपि प्रतिष्ठितः ।। ७.३८.
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः । एष नः परमः काम एषा नः पीतिरुत्तमा ।। ७.३८.
यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ।। ७.३८.
एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे । प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम् ।। ७.३८.
आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् । वर्तामहे महाबाहो प्रीत्यात्र महता वृताः । भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ।। ७.३८.
बाढमित्येव राजानो हर्षेण परमान्विताः । उचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ।। ७.३८.
पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान् ।। ७.३८.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टात्रिंशः सर्गः
ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् । गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ।। ७.३९.
अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः । भरतस्याज्ञया ऽनेकाः प्रहृष्टा बलवाहनाः ।। ७.३९.
ऊचुस्ते च महीपाला बलदर्पसमन्विताः । न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ।। ७.३९.
भरतेन वयं पश्चात्समानीता निरर्थकम् । हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ।। ७.३९.