निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् । वायुप्रकोपात्ऺत्रैलोक्यं निरयस्थमिवाभवत् ।। ७.३५.
ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः । प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ।। ७.३५.
ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः । त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ।। ७.३५.
त्वया दत्तो ऽयमस्माकमायुषः पवनः पतिः । सो ऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषो ऽद्य सत्तम ।। ७.३५.
रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः । तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ।। ७.३५.
एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः । कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ।। ७.३५.
यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च । प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ।। ७.३५.
पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः । राहोर्वचनमास्थाय ततः स कुपितो ऽनिलः ।। ७.३५.
अशरीरः शरीरेषु वायुश्चरति पालयन् । शरीरं हि विना वायुं समतां याति दारुभिः ।। ७.३५.
वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् । वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ।। ७.३५.
अद्यैव च परित्यक्तं वायुना जगदायुषा । अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ।। ७.३५.
तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः । मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ।। ७.३५.
ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः । जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ।। ७.३५.
ततो ऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः । चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ।। ७.३५.
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः । शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ।। ७.३६.
चलकुण्डलमौलिस्रक्तपनीयविभूषणः । पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे ।। ७.३६.
तं तु वेदविदा तेन लम्बाभरणशोभिना । वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ।। ७.३६.
स्पृष्टमात्रस्ततः सो ऽथ सलीलं पद्मयोनिना । जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ।। ७.३६.
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा । चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ।। ७.३६.
मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिता ऽभवन् । शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ।। ७.३६.
ततस्त्रियुग्मस्त्रिककुत्ऺित्रधामा त्रिदशार्चितः । उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ।। ७.३६.
भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः । जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ।। ७.३६.
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति । तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये ।। ७.३६.
ततः सहस्रनयनः प्रीतियुक्तः शुभाननः । कुशेशयमयीं मालामुत्क्षिप्येदं वचो ऽब्रवीत् ।। ७.३६.
मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः । नाम्ना वै कपिशार्दूलो भविता हनुमानिति ।। ७.३६.
अहमस्य प्रदास्यामि परमं वरमद्भुतम् । इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ।। ७.३६.
मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः । तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् ।। ७.३६.
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति । तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति ।। ७.३६.
नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने । वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति । वर्षायुतशतेनापि मत्पाशादुदकादपि ।। ७.३६.
यमो दण्डादवध्यत्वमरोगत्वं च नित्यशः । वरं ददामि सन्तुष्ट अविषादं च संयुगे ।। ७.३६.