घोरास्तु पक्षिणो वाचो व्याहरन्ति समन्ततः। भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्
तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत। असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः
किमिदं हृदयोत्कम्पि मनो मम विषीदति। राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः
उवाच मधुरां वाणीं श्रूयतामस्य यत् फलम्। उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम्
मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम्। तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह
कम्पयन् मेदिनीं सर्वां पातयंश्च महाद्रुमान्। तमसा संवृतः सूर्यः सर्वे नावेदिषुर्दिशः
भस्मना चावृतं सर्वं सम्मूढमिव तद्बलम्। वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा
ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम्। तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः
ददर्श भीमसंकाशं जटामण्डलधारिणम्। भार्गवं जामदग्न्येयं राजा राजविमर्दनम्
कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम्। ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः
स्कन्धे चासज्ज्य परशुं धनुर्विद्युद्गणोपमम्। प्रगृह्य शरमुग्रं च त्रिपुरघ्नं यथा शिवम्
तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम्। वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः
संगता मुनयः सर्वे संजजल्पुरथो मिथः। कच्चित् पितृवधामर्षी क्षत्रं नोत्सादयिष्यति
पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः। क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्
एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम्। ऋषयो राम रामेति मधुरं वाक्यमब्रुवन्
प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्। रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत
thumb|पञ्चसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चसप्ततितमः सर्गः ॥१-
राम दाशरथे वीर वीर्यं ते श्रूयतेऽद्भुतम्। धनुषो भेदनं चैव निखिलेन मया श्रुतम्
तदद्भुतमचिन्त्यं च भेदनं धनुषस्तथा। तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम्
तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः। पूरयस्व शरेणैव स्वबलं दर्शयस्व च
तदहं ते बलं दृष्ट्वा धनुषोऽप्यस्य पूरणे। द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यमहं तव
तस्य तद् वचनं श्रुत्वा राजा दशरथस्तदा। विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत्
क्षत्ररोषात् प्रशान्तस्त्वं ब्राह्मणश्च महातपाः। बालानां मम पुत्राणामभयं दातुमर्हसि
भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम्। सहस्राक्षे प्रतिज्ञाय शस्त्रं प्रक्षिप्तवानसि
स त्वं धर्मपरो भूत्वा कश्यपाय वसुंधराम्। दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः
मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने। न चैकस्मिन् हते रामे सर्वे जीवामहे वयम्
ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान्। अनादृत्य तु तद्वाक्यं राममेवाभ्यभाषत
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिपूजिते। दृढे बलवती मुख्ये सुकृते विश्वकर्मणा
अनुसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे। त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया
इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः। तदिदं वैष्णवं राम धनुः परपुरंजयम्