अनेन स परामृष्टो राम सूर्यरथोपरि । अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ।। ७.३५.
स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः । अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ।। ७.३५.
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव । किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ।। ७.३५.
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । अथान्यो राहुरासाद्य जग्राह सहसा रविम् ।। ७.३५.
स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः । उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ।। ७.३५.
ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् । शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ।। ७.३५.
इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् । प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ।। ७.३५.
अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् । अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ।। ७.३५.
ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च । उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ।। ७.३५.
उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् । अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ।। ७.३५.
इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः । इन्द्र इन्द्रेति संत्रासान्मुहुर्महुरभाषत ।। ७.३५.
राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् । श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ।। ७.३५.
ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि । फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ।। ७.३५.
तथास्य धावतो रूपमैरावतजिघृक्षया । मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ।। ७.३५.
एवमाधावमानं तु नातिक्रुद्धः शचीपतिः । हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ।। ७.३५.
ततो गिरौ पपातैष इन्द्रवज्राभिताडितः । पतमानस्य चैतस्य वामो हनुरभज्यत ।। ७.३५.
तस्मिंस्तु पतिते बाले वज्रताडनविह्वले । चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ।। ७.३५.
प्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः । गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ।। ७.३५.
विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् । रुरोध सर्वभूतानि यथा वर्षाणि वासवः ।। ७.३५.
वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः । सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ।। ७.३५.
निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् । वायुप्रकोपात्ऺत्रैलोक्यं निरयस्थमिवाभवत् ।। ७.३५.
ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः । प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ।। ७.३५.
ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः । त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ।। ७.३५.
त्वया दत्तो ऽयमस्माकमायुषः पवनः पतिः । सो ऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषो ऽद्य सत्तम ।। ७.३५.
रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः । तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ।। ७.३५.
एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः । कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ।। ७.३५.
यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च । प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ।। ७.३५.
पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः । राहोर्वचनमास्थाय ततः स कुपितो ऽनिलः ।। ७.३५.
अशरीरः शरीरेषु वायुश्चरति पालयन् । शरीरं हि विना वायुं समतां याति दारुभिः ।। ७.३५.
वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् । वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ।। ७.३५.