नहि वेदितवान्मन्ये हनूमानात्मनो बलम् । यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ।। ७.३५.
एतन्मे भगवन्सर्वं हनूमति महामतौ । विस्तरेण यथातत्त्वं कथयामरपूजित ।। ७.३५.
राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा । हनूमतः समक्षं तमिदं वचनमब्रवीत् ।। ७.३५.
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः । न बले विद्यते तुल्यो न गतौ न मतौ परः ।। ७.३५.
अमोघशापैः शप्तस्तु दत्तो ऽस्य मुनिभिः पुरा । न वेत्ता हि बलं येन बली सन्निरिमर्दनः ।। ७.३५.
बाल्ये ऽप्येतेन यत्कर्म कृतं राम महाबल । तन्न वर्णयितुं शक्यमिति बालतया ऽ ऽस्यते ।। ७.३५.
यदि वा ऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव । समाधाय मतिं राम निशामय वदाम्यहम् ।। ७.३५.
सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः । यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ।। ७.३५.
तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता । जनयामास तस्यां वै वायुरात्मजमुत्तमम् ।। ७.३५.
शालिशूकनिभाभासं प्रासूतामुं तदा ऽञ्जना । फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ।। ७.३५.
एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः । रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ।। ७.३५.
तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् । ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ।। ७.३५.
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् । ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः ।। ७.३५.
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति । देवदानवयक्षाणां विस्मयः सुमहानभूत् ।। ७.३५.
नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा । यथा ऽयं वायुपुत्रस्तु क्रमते ऽम्बरमुत्तमम् ।। ७.३५.
यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः । यौवनं बलमासाद्य कथं वेगो भविष्यति ।। ७.३५.
तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः । सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ।। ७.३५.
बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् । पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ।। ७.३५.
शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः । कार्यं चात्र समायत्तमित्येवं न ददाह सः ।। ७.३५.
यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः । तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ।। ७.३५.
अनेन स परामृष्टो राम सूर्यरथोपरि । अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ।। ७.३५.
स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः । अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ।। ७.३५.
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव । किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ।। ७.३५.
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । अथान्यो राहुरासाद्य जग्राह सहसा रविम् ।। ७.३५.
स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः । उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ।। ७.३५.
ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् । शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ।। ७.३५.
इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् । प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ।। ७.३५.
अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् । अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ।। ७.३५.
ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च । उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ।। ७.३५.
उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् । अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ।। ७.३५.