अतुलं बलमेतद्वै वालिनो रावणस्य च । न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ।। ७.३५.
शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् । विक्रमश्च प्रभावश्च हनूमति कृतालयाः ।। ७.३५.
दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् । समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ।। ७.३५.
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा । दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ।। ७.३५.
सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः । एते हनुमता तत्र ह्येकेन वितिपातिताः ।। ७.३५.
भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् । लङ्का भस्मीकृता येन पावकेनेव मेदिनी ।। ७.३५.
न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च । कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ।। ७.३५.
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः । प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ।। ७.३५.
हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा । प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ।। ७.३५.
किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया । तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ।। ७.३५.
नहि वेदितवान्मन्ये हनूमानात्मनो बलम् । यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ।। ७.३५.
एतन्मे भगवन्सर्वं हनूमति महामतौ । विस्तरेण यथातत्त्वं कथयामरपूजित ।। ७.३५.
राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा । हनूमतः समक्षं तमिदं वचनमब्रवीत् ।। ७.३५.
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः । न बले विद्यते तुल्यो न गतौ न मतौ परः ।। ७.३५.
अमोघशापैः शप्तस्तु दत्तो ऽस्य मुनिभिः पुरा । न वेत्ता हि बलं येन बली सन्निरिमर्दनः ।। ७.३५.
बाल्ये ऽप्येतेन यत्कर्म कृतं राम महाबल । तन्न वर्णयितुं शक्यमिति बालतया ऽ ऽस्यते ।। ७.३५.
यदि वा ऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव । समाधाय मतिं राम निशामय वदाम्यहम् ।। ७.३५.
सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः । यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ।। ७.३५.
तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता । जनयामास तस्यां वै वायुरात्मजमुत्तमम् ।। ७.३५.
शालिशूकनिभाभासं प्रासूतामुं तदा ऽञ्जना । फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ।। ७.३५.
एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः । रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ।। ७.३५.
तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् । ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ।। ७.३५.
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् । ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः ।। ७.३५.
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति । देवदानवयक्षाणां विस्मयः सुमहानभूत् ।। ७.३५.
नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा । यथा ऽयं वायुपुत्रस्तु क्रमते ऽम्बरमुत्तमम् ।। ७.३५.
यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः । यौवनं बलमासाद्य कथं वेगो भविष्यति ।। ७.३५.
तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः । सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ।। ७.३५.
बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् । पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ।। ७.३५.
शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः । कार्यं चात्र समायत्तमित्येवं न ददाह सः ।। ७.३५.
यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः । तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ।। ७.३५.