इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः । जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ।। ७.३४.
तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ । प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ।। ७.३४.
हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् । पराङ्मुखो ऽपि जग्राह वाली सर्पमिवाण्डजः ।। ७.३४.
ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः । खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ।। ७.३४.
तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः । जहार रावणं वाली पवनस्तोयदं यथा ।। ७.३४.
अथ ते राक्षसामात्या ह्रियमाणं दशाननम् । मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ।। ७.३४.
अन्वीयमानस्तैर्वाली भ्राजते ऽम्बरमध्यगः । अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ।। ७.३४.
ते ऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः । तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ।। ७.३४.
वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः । किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ।। ७.३४.
अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः । क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत ।। ७.३४.
सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः । पश्चिमं सागरं वाली ह्याजगाम सरावणः ।। ७.३४.
तस्मिन्सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः । उत्तरं सागरं प्रायाद्वहमानो दशाननम् ।। ७.३४.
बहुयोजनसाहस्रं वहमानो महाहरिः । वायुवच्च मनोवच्च जगाम सह शत्रुणा ।। ७.३४.
उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् । वहमानो ऽगमद्वाली पूर्वं वै स महोदधिम् ।। ७.३४.
तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः । किष्किन्धामभितो गृह्य रावणं पुनरागमत् ।। ७.३४.
चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः । रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् ।। ७.३४.
रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः । कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ।। ७.३४.
विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः । राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ।। ७.३४.
वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः । युद्धेप्सुरिह सम्प्राप्तः स चाद्यासादितस्त्वया ।। ७.३४.
अहो बलमहो वीर्यमहो गाम्भीर्यमेव च । येनाहं पशुवद्गृह्य भ्रामितश्चतुरो ऽर्णवान् ।। ७.३४.
एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् । मां चैवोद्वहमानस्तु को ऽन्यो वीरः क्रमिष्यति ।। ७.३४.
त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम । मनोनिलसुपर्णानां तव चात्र न संशयः ।। ७.३४.
सो ऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव । त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ।। ७.३४.
दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् । सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ।। ७.३४.
ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ । भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् ।। ७.३४.
अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ । किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ।। ७.३४.
स तत्र मासमुषितः सुग्रीव इव रावणः । अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ।। ७.३४.
एवमेतत्पुरावृत्तं वालिना रावणः प्रभो । धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ।। ७.३४.
बलमप्रतिमं राम वालिनो ऽभवदुत्तमम् । सो ऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा ।। ७.३४.
अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम् । प्राञ्जलिर्विनयोपेत इदमाह वचो ऽर्थवत् ।। ७.३५.