बध्यमाने दशग्रीवे सिद्धचारणदेवताः । साध्वीतिवादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ।। ७.३२.
व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् । ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ।। ७.३२.
प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् । सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ।। ७.३२.
नक्तञ्चराणां वेगस्तु तेषामापततां बभौ । उद्भूत आतपापाये पयोदानामिवाम्बुधौ ।। ७.३२.
मुञ्च मुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् । मुसलानि सशूलानि सोत्ससर्ज तदार्जुने ।। ७.३२.
अप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः । आयुधान्यमरारीणां जग्राहारिनिषूदनः ।। ७.३२.
ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः । भित्त्वा विद्रावयामास वायुरम्बुधरानिव ।। ७.३२.
राक्षसांस्त्रासयित्वा तु कार्तवीर्यो ऽर्जुनस्तदा । रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ।। ७.३२.
स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः । तदा ऽर्जुनः सम्प्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ।। ७.३२.
रावणग्रहणं तत्तु वायुग्रहणसन्निभम् । ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ।। ७.३३.
ततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः । माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ।। ७.३३.
स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः । पुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः ।। ७.३३.
सो ऽमरावतिसङ्काशां हृष्टपुष्टजनाकुलाम् । प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ।। ७.३३.
पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् । ततस्ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन् ।। ७.३३.
पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः । शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ।। ७.३३.
पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च । पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ।। ७.३३.
ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् । अर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम् ।। ७.३३.
स तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च । पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ।। ७.३३.
अद्यैवममरावत्या तुल्या माहिष्मती कृता । अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ।। ७.३३.
अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् । अद्य मे सफलं जन्म अद्य मे सफलं तपः । यस्माद्देवगणैर्वन्द्यौ वन्दे ऽहं चरणौ तव ।। ७.३३.
इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् । ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ।। ७.३३.
तं धर्मे ऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् । पुलस्त्योवाच राजानं हैहयानां तथा ऽर्जुनम् ।। ७.३३.
नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन । अतुलं ते बलं येन दशग्रीवस्त्वया जितः ।। ७.३३.
भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ । सो ऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ।। ७.३३.
पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया । मद्वाक्याद्याच्यमानो ऽद्य मुञ्च वत्सं दशाननम् ।। ७.३३.
पुलस्त्याज्ञां प्रगृह्योचे न किञ्चन वचो ऽर्जुनः । मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ।। ७.३३.
स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः । अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ।। ७.३३.
पुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान् । परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ।। ७.३३.
पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः । मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह ।। ७.३३.
एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम् । पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ।। ७.३३.