हैहयाधिपयोधानां वेग आसीत्सुदारुणः । सनक्रमीनमकरसमुद्रस्येव निःस्वनः ।। ७.३२.
रावणस्य तु ते ऽमात्याः प्रहस्तशुकसारणाः । कार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा ।। ७.३२.
अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः । क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ।। ७.३२.
श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततो ऽर्जुनः । उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ।। ७.३२.
क्रोधदूषितनेत्रस्तु स ततो ऽर्जुनपावकः । प्रजज्वाल महाघोरो युगान्त इव पावकः ।। ७.३२.
स तूर्णतरमादाय वरहेमाङ्गदो गदाम् । अभिदुद्राव रक्षांसि तमांसीव दिवाकरः ।। ७.३२.
बाहुविक्षेपकरणां समुद्यम्य महागदाम् । गारुडं वेगमास्थाय चापपातैव सो ऽर्जुनः ।। ७.३२.
तस्य मार्गं समारुद्ध्य विन्ध्यो ऽर्कस्येव पर्वतः । स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ।। ७.३२.
ततो ऽस्य मुसलं घोरं लोहबद्धं महोद्धतः । प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ।। ७.३२.
तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः । प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ।। ७.३२.
अथायान्तं तु मुसलं कार्तवीर्यस्तदार्जुनः । निपुणं वञ्चयामास सगदो ऽगदविक्रमः ।। ७.३२.
ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः । भ्रामयानो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ।। ७.३२.
तथा हतो ऽतिवेगेन प्रहस्तो गदया तदा । निपपात स्थितः शैलो वज्रिवज्रहतो यथा ।। ७.३२.
प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः । समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ।। ७.३२.
अपक्रान्तेष्वमात्येषु प्रहस्ते वै निपातिते । रावणो ऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ।। ७.३२.
सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् । नृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम् ।। ७.३२.
सागराविव संरब्धौ चलन्मूलाविवाचलौ । तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ।। ७.३२.
बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ । मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ।। ७.३२.
रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ । परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ।। ७.३२.
वज्रप्रहारानचला यथा घोरान्विषेहिरे । गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ।। ७.३२.
यथा ऽ शनिरवेभ्यस्तु जायते ऽथ प्रतिश्रुतिः । तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ।। ७.३२.
अर्जुनस्य गदा सा तु पात्यमाना ऽहितोरसि । काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा ।। ७.३२.
तथैव रावणेनापि पात्यमाना मुहुर्मुहुः । अर्जुनोरसि निर्भाति गदोल्केव महागिरौ ।। ७.३२.
नार्जुनः खेदमायाति न राक्षसगणेश्वरः । इदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ।। ७.३२.
शृङ्गैरिव वृषायुध्यन्दन्ताग्रैरिव कुञ्जरौ । परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ।। ७.३२.
ततो ऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा । स्तनयोरन्तरे मुक्ता रावणस्य महोरसि ।। ७.३२.
वरदानकृतत्राणे सा गदा रावणोरसि । दुर्बलेव यथावेगं द्विधाभूत्वा ऽपतत्क्षितौ ।। ७.३२.
स त्वर्जुनप्रमुक्तेन गदापातेन रावणः । अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ।। ७.३२.
स विह्वलं तदालक्ष्य दशग्रीवं ततो ऽर्जुनः । सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ।। ७.३२.
स तु बाहुसहस्रेण बलाद्गृह्य दशाननम् । बबन्ध बलवान्राजा बलिं नारायणो यथा ।। ७.३२.