अहमप्यद्य पुलिने शरदिन्दुसमप्रभे । पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ।। ७.३१.
रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः । समहोदरधूम्राक्षा नर्मदां विजगाहिरे ।। ७.३१.
राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी । वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ।। ७.३१.
ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः । उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ।। ७.३१.
नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे । राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ।। ७.३१.
पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः । अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ।। ७.३१.
तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् । नर्मदासलिलात्तस्मादुत्ततार स रावणः ।। ७.३१.
ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् । रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ।। ७.३१.
तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः । यत्र यत्र च याति स्म रावणो राक्षसेश्वरः । जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ।। ७.३१.
वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः । अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ।। ७.३१.
ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् । समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः ।। ७.३१.
नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः । पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ।। ७.३२.
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः । क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ।। ७.३२.
तासां मध्यगतो राजा रराज च तदार्जुनः । करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ।। ७.३२.
जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् । रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ।। ७.३२.
कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् । कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ।। ७.३२.
समीननक्रमकरः सपुष्पकुशसंस्तरः । स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ।। ७.३२.
स वेगः कार्तवीर्येण सम्प्रेषित इवाम्भसः । पुष्पोपहारं सकलं रावणस्य जहार ह ।। ७.३२.
रावणो ऽर्धसमाप्तं तमुत्सृज्य नियमं तदा । नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ।। ७.३२.
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् । वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ।। ७.३२.
ततो ऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् । निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ।। ७.३२.
सव्येतरकराङ्गुल्या सशब्दं च दशाननः । वेगप्रभावमन्वेष्टुं सो ऽदिशच्छुकसारणौ ।। ७.३२.
तौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ । व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ।। ७.३२.
अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ । पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ।। ७.३२.
बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् । मदरक्तान्तनयनं मदव्याकुलतेजसम् ।। ७.३२.
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् । गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ।। ७.३२.
बालानां वरनारीणां सहस्रेण समावृतम् । समदानां करेणूनां सहस्रेणेव कुञ्जरम् ।। ७.३२.
तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ । सन्निवृत्तावुपागम्य रावणं तमथोचतुः ।। ७.३२.
बृहत्सालप्रतीकाशः को ऽप्यसौ राक्षसेश्वर । नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ।। ७.३२.
तेन बाहुसहस्रेण सन्निरुद्धजला नदी । सागरोद्गारसङ्काशानुद्गारान्सृजते मुहुः ।। ७.३२.