यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् । तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ।। ७.३०.
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः । मानुषेष्वपि लोकेषु भविष्यति न संशयः ।। ७.३०.
तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति । न च ते स्थावरं स्थानं भविष्यति न संशयः ।। ७.३०.
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति । एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत् ।। ७.३०.
तां तु भार्यां स निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः । दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ।। ७.३०.
रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता । तस्माद्रूपवती लोके न त्वमेका भविष्यति ।। ७.३०.
रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः । यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः ।। ७.३०.
तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः । सा तं प्रसादयामास महर्षिं गौतमं तदा ।। ७.३०.
अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा । न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ।। ७.३०.
अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः । उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ।। ७.३०.
रामो नाम श्रुतो लोके वनं चाप्युपयास्यति । ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः । तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि ।। ७.३०.
स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् । तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ।। ७.३०.
वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि । एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् ।। ७.३०.
तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः । शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् ।। ७.३०.
तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् । तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव ।। ७.३०.
शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः । पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ।। ७.३०.
पुत्रश्च तव देवेन्द्र न विनष्टो महारणे । नीतः सन्निहितश्चैव आर्यकेण महोदधौ ।। ७.३०.
एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् । पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ।। ७.३०.
एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया । निर्जितस्तेन देवेन्द्रः प्राणिनो ऽन्ये तु किं पुनः ।। ७.३०.
आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा । अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ।। ७.३०.
विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् । आश्चर्यं स्मारितो ऽस्म्यद्य यत्तद्दृष्टं पुरातनम् ।। ७.३०.
अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे ।। ७.३०.
एवं राम समुद्भूतो रावणो लोककण्टकः । सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः ।। ७.३०.
ततो रामो महातेजा विस्मयात्पुनरेव हि । उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ।। ७.३१.
भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् । पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ।। ७.३१.
राजा वा राजमात्रो वा किं तदा नात्र कश्चन । धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः ।। ७.३१.
उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः । बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ।। ७.३१.
राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः । उवाच रामं प्रहसन्पितामह इवेश्वरम् ।। ७.३१.
इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ । चचार रावणो राम पृथिवीं पृथिवीपते ।। ७.३१.
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् । सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः ।। ७.३१.