्वं हि कस्यचित्प्राणिनो भुवि । अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः । श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ।। ७.३०.
ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् । सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः ।। ७.३०.
अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः । तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः ।। ७.३०.
तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ । युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम् ।। ७.३०.
सर्वो हि तपसा देव वृणोत्यमरतां पुमान् । विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ।। ७.३०.
एवमस्त्विति तं चाह वाक्यं देवः पितामहः । मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ।। ७.३०.
एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः । इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ।। ७.३०.
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः । शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम् ।। ७.३०.
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो । एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ।। ७.३०.
तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा । ततो ऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम् ।। ७.३०.
सो ऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे । यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ।। ७.३०.
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता । हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् ।। ७.३०.
यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता । अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ।। ७.३०.
निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ । भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् ।। ७.३०.
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो । स्थानाधिकतया पत्नी ममैषेति पुरन्दर ।। ७.३०.
सा मया न्यासभूता तु गौतमस्य महात्मनः । न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ।। ७.३०.
ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः । ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ।। ७.३०.
सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः । दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ।। ७.३०.
सा त्वया धर्षिता शक्र कामार्तेन समन्युना । दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ।। ७.३०.
ततः क्रुद्धेन तेना ऽसि शप्तः परमतेजसा । गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् ।। ७.३०.
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् । तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ।। ७.३०.
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः । मानुषेष्वपि लोकेषु भविष्यति न संशयः ।। ७.३०.
तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति । न च ते स्थावरं स्थानं भविष्यति न संशयः ।। ७.३०.
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति । एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत् ।। ७.३०.
तां तु भार्यां स निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः । दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ।। ७.३०.
रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता । तस्माद्रूपवती लोके न त्वमेका भविष्यति ।। ७.३०.
रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः । यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः ।। ७.३०.
तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः । सा तं प्रसादयामास महर्षिं गौतमं तदा ।। ७.३०.
अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा । न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ।। ७.३०.
अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः । उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ।। ७.३०.