विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम्। प्रपामध्ये तु विधिवद् वेदिं कृत्वा महातपाः
अलंचकार तां वेदिं गन्धपुष्पैः समन्ततः। सुवर्णपालिकाभिश्च चित्रकुम्भैश्च साङ्कुरैः
अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः। शङ्खपात्रैः स्रुवैः स्रग्भिः पात्रैरर्घ्यादिपूजितैः
लाजपूर्णैश्च पात्रीभिरक्षतैरपि संस्कृतैः। दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम्
अग्निमाधाय तं वेद्यां विधिमन्त्रपुरस्कृतम्। जुहावाग्नौ महातेजा वसिष्ठो मुनिपुंगवः
ततः सीतां समानीय सर्वाभरणभूषिताम्। समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा
अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम्। इयं सीता मम सुता सहधर्मचरी तव
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना। पतिव्रता महाभागा छायेवानुगता सदा
इत्युक्त्वा प्राक्षिपद् राजा मन्त्रपूतं जलं तदा। साधुसाध्विति देवानामृषीणां वदतां तदा
देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत्। एवं दत्त्वा सुतां सीतां मन्त्रोदकपुरस्कृताम्
अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः। लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया
प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः। तमेवमुक्त्वा जनको भरतं चाभ्यभाषत
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन। शत्रुघ्नं चापि धर्मात्मा अब्रवीन्मिथिलेश्वरः
श्रुतकीर्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना। सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः
पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः। जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन्
चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः। अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च
ऋषींश्चापि महात्मानः सहभार्या रघूद्वहाः। यथोक्तेन ततश्चक्रुर्विवाहं विधिपूर्वकम्
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात् सुभास्वरा। दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः
ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम्। विवाहे रघुमुख्यानां तदद्भुतमदृश्यत
ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते। त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः
अथोपकार्यं जग्मुस्ते सभार्या रघुनन्दनाः। राजाप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः
thumb|चतुःसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-
अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः। आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम्
विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम्। आपृष्ट्वैव जगामाशु राजा दशरथः पुरीम्
अथ राजा विदेहानां ददौ कन्याधनं बहु। गवां शतसहस्राणि बहूनि मिथिलेश्वरः
कम्बलानां च मुख्यानां क्षौमान् कोट्यम्बराणि च। हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम्
ददौ कन्याशतं तासां दासीदासमनुत्तमम्। हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च
ददौ राजा सुसंहृष्टः कन्याधनमनुत्तमम्। दत्त्वा बहुविधं राजा समनुज्ञाप्य पार्थिवम्
प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः। राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः
ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः। गच्छन्तं तु नरव्याघ्रं सर्षिसङ्घं सराघवम्