नह्येष हन्तुं शक्यो ऽद्य वरदानात्सुनिर्भयः । तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ।। ७.२९.
यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया । एवमेतस्य पापस्य निरोधो मम रोचते ।। ७.२९.
ततो ऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् । अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ।। ७.२९.
उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः । दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ।। ७.२९.
ततः स योजनशतं प्रविष्टो राक्षसाधिपः । देवतानां बलं सर्वं शरवर्षैरवाकिरत् ।। ७.२९.
ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् । न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ।। ७.२९.
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः । हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ।। ७.२९.
ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः । तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ।। ७.२९.
तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा । प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ।। ७.२९.
स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत । महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ।। ७.२९.
विमुक्तकवचस्तत्र वध्यमानो ऽपि रावणिः । त्रिदशैः सुमहावीर्यैर्न चकार च किञ्चन ।। ७.२९.
स मातलिं समायान्तं ताडयित्वा शरोत्तमैः । महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ।। ७.२९.
ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् । ऐरावतं समारुह्य मृगयामास रावणिम् ।। ७.२९.
स तत्र मायाबलवानदृश्यो ऽथान्तरिक्षगः । इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः ।। ७.२९.
स तं यदा परिश्रान्तमिन्द्रं जज्ञे ऽथ रावणिः । तदैनं मायया बद्ध्वा स्वसैन्यमभितो ऽनयत् ।। ७.२९.
तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् । महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ।। ७.२९.
दृश्यते न स मायावी शक्रजित्समितिञ्जयः । विद्यावानपि येनेन्द्रो मायया नीयते बलात् ।। ७.२९.
एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा । रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ।। ७.२९.
रावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा । न शशाक स सङ्ग्रामे योद्धुं शत्रुभिरर्दितः ।। ७.२९.
स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् । रावणिः पितरं युद्धे दर्शनस्थो ऽब्रवीदिदम् ।। ७.२९.
आगच्छ तात गच्छामो रणकर्म निवर्तताम् । जितं नो विदितं ते ऽस्तु स्वस्थो भव गतज्वरः ।। ७.२९.
अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः । स गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ।। ७.२९.
यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा । वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ।। ७.२९.
ततस्ते दैवतगणा निवृत्ता रणकर्मणः । तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेताः बभूव ह ।। ७.२९.
अथ स रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः । स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ।। ७.२९.
अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् । यदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ।। ७.२९.
नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् । अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ।। ७.२९.
अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः । स्वभवनमभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ।। ७.२९.
जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै । प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ।। ७.३०.
तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् । अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः ।। ७.३०.