एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् । निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ।। ७.२८.
स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम् । त्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत ।। ७.२८.
आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् । यस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश ।। ७.२८.
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि । निपातयामास शरान्पावकादित्यवर्चसः ।। ७.२८.
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः । शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ।। ७.२८.
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः । न ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम् ।। ७.२८.
ततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः । अयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ।। ७.२९.
ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् । दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ।। ७.२९.
तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः । अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ।। ७.२९.
इन्द्रश्च रावणश्चैव रावणिश्च महाबलः । तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ।। ७.२९.
स तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात् । क्रोधमभ्यगमत्तीव्रं महानादं च मुक्तवान् ।। ७.२९.
क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह । परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ।। ७.२९.
अद्यैतान् त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् । नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ।। ७.२९.
अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् । त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि । विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ।। ७.२९.
द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ।। ७.२९.
अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् । नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ।। ७.२९.
तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् । आदिदेशाथ शत्रणां मध्येनैव च सारथिः ।। ७.२९.
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा । रथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत् ।। ७.२९.
सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते । जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ।। ७.२९.
एष ह्यतिबलः सैन्यै रथेन पवनौजसा । गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ।। ७.२९.
नह्येष हन्तुं शक्यो ऽद्य वरदानात्सुनिर्भयः । तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ।। ७.२९.
यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया । एवमेतस्य पापस्य निरोधो मम रोचते ।। ७.२९.
ततो ऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् । अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ।। ७.२९.
उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः । दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ।। ७.२९.
ततः स योजनशतं प्रविष्टो राक्षसाधिपः । देवतानां बलं सर्वं शरवर्षैरवाकिरत् ।। ७.२९.
ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् । न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ।। ७.२९.
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः । हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ।। ७.२९.
ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः । तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ।। ७.२९.
तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा । प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ।। ७.२९.
स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत । महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ।। ७.२९.