शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् । महान्ति गिरिशृङ्गाणि पातयामास रावणिः ।। ७.२८.
ततः प्रव्यथिता लोकाः सञ्जज्ञे च तमो ऽभवत् । तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ।। ७.२८.
ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् । बहुप्रकारमस्वस्थमभवच्छरपीडितम् ।। ७.२८.
नाभ्यजानन्त चान्योन्यं रक्षो वा देवता ऽथवा । तत्र तत्र विपर्यस्तं समन्तात्परिधावति ।। ७.२८.
देवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा । सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ।। ७.२८.
एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् । दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रो ऽपवाहितः ।। ७.२८.
सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा । आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ।। ७.२८.
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः । अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ।। ७.२८.
रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः । अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ।। ७.२८.
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् । मातलिं चाह देवेशो रथः समुपनीयताम् ।। ७.२८.
स तु दिव्यो महाभीमः सज्ज एव महारथः । उपस्थितो मातलिना वाह्यमानो महाजवः ।। ७.२८.
ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः । अग्रतो वायुचपला नेदुः परमनिःस्वनाः ।। ७.२८.
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः । ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ।। ७.२८.
रुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः । वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ।। ७.२८.
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ । भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ।। ७.२८.
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् । आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ।। ७.२८.
पन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः । तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ।। ७.२८.
दैत्यैर्निशाचरैश्चैव स रथः परिवारितः । समराभिमुखो दैत्यो महेन्द्रं सो ऽभ्यवर्तत ।। ७.२८.
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः । सो ऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ।। ७.२८.
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह । शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ।। ७.२८.
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः । नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ।। ७.२८.
दन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः । येन केनैव संरब्धस्ताडयामास वै सुरान् ।। ७.२८.
ततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः । प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ।। ७.२८.
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् । विद्युत्स्तनितनिर्घोषो धारवानिव तोयदः ।। ७.२८.
ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः । रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ।। ७.२८.
केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले । वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ।। ७.२८.
रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे । शिंशुमारान्वराहांश्च पिशाचवदनान्तथा ।। ७.२८.
तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः । देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ।। ७.२८.
चित्रकर्म इवाभाति स तेषां रणसम्प्लवः । निहतानां प्रमत्तानां राक्षसानां महीतले ।। ७.२८.
शोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला । प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ।। ७.२८.