एवमुक्तः स शक्रेण देवो नारायणः प्रभुः । अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे ।। ७.२७.
न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः । हन्तुं चापि समासाद्य वरदानेन दुर्जयः ।। ७.२७.
सर्वथा तु महत्कर्म करिष्यति बलोत्कटः । राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ।। ७.२७.
यत्तु मां त्वमभाषिष्ठ युद्ध्यस्वेति सुरेश्वर । नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ।। ७.२७.
नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते । दुर्लभश्चैव कामो ऽद्य वरगुप्ताद्धि रावणात् ।। ७.२७.
प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो । भविता ऽस्मि यथा ऽस्याहं रक्षसो मृत्युकारणम् ।। ७.२७.
अहमेव निहन्ता ऽस्मि रावणं सपुरःसरम् । देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् । एतत्ते कथितं तत्त्वं देवराज शचीपते ।। ७.२७.
युद्ध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ।। ७.२७.
यामि ज्ञात्वा कालमुपागतम् । ततो रुद्राः सहादित्या वसवो मरुतो ऽश्वनौ । सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ।। ७.२७.
एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये । तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ।। ७.२७.
ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै । सङ्ग्राममेवाभिमुखा ह्यभवर्तन्त हृष्टवत् ।। ७.२७.
ततो दैवतसैन्यनां सङ्क्षोभः समजायत । तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ।। ७.२७.
ततो युद्धं समभवेद्देवदानवरक्षसाम् । घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ।। ७.२७.
एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः । युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ।। ७.२७.
मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ । अकम्पनो निकुम्भश्च शुकः सारण एव च ।। ७.२७.
संह्लादो धूमकेतुश्च महादंष्ट्रो घटोदरः । जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ।। ७.२७.
सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः । त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ।। ७.२७.
महाकायो ऽतिकायश्च देवान्तकनरान्तकौ । एतैः सर्वैः परिवृतो महावीर्यो महाबलः ।। ७.२७.
रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह । स दैवतगणान्सर्वान्नानाप्रहरणैः शितैः । व्यध्वंसयत्सुसङ्क्रुद्धो वायुर्जलधरानिव ।। ७.२७.
तद्दैवतबलं राम हन्यमानं निशाचरैः । प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ।। ७.२७.
एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः । सावित्र इति विख्यातः प्रविवेश रणाजिरम् ।। ७.२७.
तथा ऽ ऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ । निंर्भयौ सह सैन्येन तदा प्राविशतां रणे ।। ७.२७.
ततो युद्धं समभवत्सुराणां सह राक्षसैः । क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ।। ७.२७.
ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान् । नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ।। ७.२७.
देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् । समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ।। ७.२७.
एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः । नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सो ऽभ्यवर्तत ।। ७.२७.
स दैवतबलं सर्वं नानाप्रहणैः शितैः । व्यध्वंसयत सङ्क्रुद्धो वायुर्जलधरं यथा ।। ७.२७.
ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः । हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ।। ७.२७.
ततो विद्राव्यमाणेषु दैवतेषु सुमालिना । वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ।। ७.२७.
संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् । विक्रमेण महातेजा वारयामास संयुगे ।। ७.२७.