सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः । नलकूबरमासाद्य पादयोर्निपपात ह ।। ७.२६.
तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः । अब्रवीत्किमिदं भद्रे पादयोः पतिता ऽसि मे ।। ७.२६.
सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः । तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ।। ७.२६.
एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् । तेन सैन्यसहायेन निशेयं परिणामिता ।। ७.२६.
आयन्ती तेन दृष्टा ऽस्मि त्वत्सकाशमरिन्दम । गृहीता तेन पृष्टा ऽस्मि कस्य त्वमिति रक्षसा ।। ७.२६.
मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् । काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ।। ७.२६.
याच्यमानो मया देव स्नुषा ते ऽहमिति प्रभो । तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ।। ७.२६.
एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत । न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ।। ७.२६.
एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः । धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह ।। ७.२६.
तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः । मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ।। ७.२६.
गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि । उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम् ।। ७.२६.
अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता । तस्मात्स युवतीमन्यां नाकामामुपयास्यति ।। ७.२६.
यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् । मूर्धा तु सप्तधा तस्य शकलीभविता तदा ।। ७.२६.
तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता । पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ।। ७.२६.
ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः । ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ।। ७.२६.
श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् । नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ।। ७.२६.
तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः । नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ।। ७.२६.
कैलासं लङ्घयित्वाथ दशग्रीवः स रावणः । आससाद महातेजा इन्द्रलोकं निशाचरः ।। ७.२७.
तस्य राक्षससैन्यस्य समन्तादुपयास्यतः । देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ।। ७.२७.
श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् । अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ।। ७.२७.
आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् । सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ।। ७.२७.
एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि । सन्नह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः ।। ७.२७.
स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति । विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ।। ७.२७.
विष्णो कथं करिष्यामि महावीर्यपराक्रमः । असौ हि बलवद्रक्षो युद्धार्थमभिवर्तते ।। ७.२७.
वरप्रदानाद्बलवान्न खल्वन्येन हेतुना । तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ।। ७.२७.
तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ । त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ।। ७.२७.
नह्यन्यो देवदेवेश त्वामृते मधुसूदन । गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ।। ७.२७.
त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः । त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ।। ७.२७.
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् । त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ।। ७.२७.
तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम् । अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो ।। ७.२७.