अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि । तद्धर्मतः स्नुषा ते ऽहं तत्त्वमेव ब्रवीमि ते ।। ७.२६.
अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् । रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ।। ७.२६.
सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः । बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ।। ७.२६.
धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव । पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते । विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ।। ७.२६.
धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् । क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ।। ७.२६.
तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै । तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ।। ७.२६.
तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ।। ७.२६.
तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम ।। ७.२६.
स हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः । तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ।। ७.२६.
सद्भिराचरितं मार्गं गच्छ राक्षसुपुङ्गव । माननीयो मम त्वं हि पालनीया तथा ऽस्मि ते ।। ७.२६.
एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् । स्नुषा ऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः । देवलोकस्थितिरियं सुराणां शाश्वती मता ।। ७.२६.
पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ।। ७.२६.
स्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः । एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले । कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ।। ७.२६.
सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा । गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ।। ७.२६.
लुलिताकुलकेशान्ता करवेपितपल्लवा । पवनेनावधूतेव लता कुसुमशालिनी ।। ७.२६.
सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः । नलकूबरमासाद्य पादयोर्निपपात ह ।। ७.२६.
तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः । अब्रवीत्किमिदं भद्रे पादयोः पतिता ऽसि मे ।। ७.२६.
सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः । तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ।। ७.२६.
एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् । तेन सैन्यसहायेन निशेयं परिणामिता ।। ७.२६.
आयन्ती तेन दृष्टा ऽस्मि त्वत्सकाशमरिन्दम । गृहीता तेन पृष्टा ऽस्मि कस्य त्वमिति रक्षसा ।। ७.२६.
मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् । काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ।। ७.२६.
याच्यमानो मया देव स्नुषा ते ऽहमिति प्रभो । तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ।। ७.२६.
एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत । न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ।। ७.२६.
एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः । धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह ।। ७.२६.
तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः । मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ।। ७.२६.
गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि । उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम् ।। ७.२६.
अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता । तस्मात्स युवतीमन्यां नाकामामुपयास्यति ।। ७.२६.
यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् । मूर्धा तु सप्तधा तस्य शकलीभविता तदा ।। ७.२६.
तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता । पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ।। ७.२६.
ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः । ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ।। ७.२६.