एष प्राप्तो दशग्रीवो मम भ्राता महाबलः । सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ।। ७.२५.
तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस । स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ।। ७.२५.
तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ।। ७.२५.
ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः । पूजयमास धर्मेण रावणं राक्षसाधिपम् ।। ७.२५.
प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् । तत्र चैकां निशामुष्य गमनायोपचक्रमे ।। ७.२५.
ततः कैलासमासाद्य शैलं वैश्रवणालयम् । राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ।। ७.२५.
स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् । अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ।। ७.२६.
उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि । प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ।। ७.२६.
रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि । स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान् ।। ७.२६.
कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा । पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ।। ७.२६.
चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा । चूतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः । तगरैर्नारिकैलैश्च प्रियालपनसैस्तथा ।। ७.२६.
आरग्वधैस्तमालैश्च प्रियालवकुलैरपि । एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे । किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः ।। ७.२६.
समं सम्प्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ।। ७.२६.
भिरुद्भासितवनान्तरे । विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः । योषिद्भिः सह सङ्क्रान्ताश्चिक्रीडुर्जहृषुश्च वै ।। ७.२६.
घण्टानामिव सन्नादः शुश्रुवे मधुरस्वरः । अप्सरोगणसङ्घानां गायतां धनदालये ।। ७.२६.
पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः । शैलं तं वासयन्तीव मधुमाधवगन्धिनः ।। ७.२६.
मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् । प्रववौ वर्धयन्कामं रावणस्य सुखो ऽनिलः ।। ७.२६.
गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात् । प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ।। ७.२६.
रावणस्तु महावीर्यः कामस्य वशमागतः । विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत ।। ७.२६.
एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता । सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ।। ७.२६.
दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा । दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ।। ७.२६.
चक्षुर्मनोहरं पीनं मेखलादामभूषितम् । समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् ।। ७.२६.
कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः ।। ७.२६.
बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् । नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ।। ७.२६.
यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे । ऊरू करिकराकारौ करौ पल्लवकोमलौ । सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ।। ७.२६.
तां समुत्थाय गच्छन्तीं कामबाणवशं गतः । करे गृहीत्वा लज्जन्तीं स्मयमानो ऽभ्यभाषत ।। ७.२६.
क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् । कस्याभ्युदयकालो ऽयं यस्त्वां समुपभोक्ष्यते ।। ७.२६.
त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः । सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति ।। ७.२६.
स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ । कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ ।। ७.२६.
सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु । अध्यारोहति कस्ते ऽद्य जघनं स्वर्गरूपिणम् ।। ७.२६.