धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव । श्रुत्वा ऽपि तन्महाराज क्षान्तमेव हतो न सः ।। ७.२५.
यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः । तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ।। ७.२५.
अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते । विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः । दौरात्म्येनात्मनोद्धूतस्तप्ताम्भ इव सागरः ।। ७.२५.
ततो ऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः । कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ।। ७.२५.
भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः । वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ।। ७.२५.
अद्य तं समरे हत्वा मधुं रावणनिर्भयम् । सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ।। ७.२५.
अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् । नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ।। ७.२५.
इन्द्रजित्त्वग्रतः (अग्रतः) सैन्यात्सैनिकान्परिगृह्य च । जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ।। ७.२५.
विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत् । शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ।। ७.२५.
खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः । राक्षसाः प्रययुः सर्वे कृत्वा ऽ ऽकाशं निरन्तरम् ।। ७.२५.
दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः । रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ।। ७.२५.
स तु गत्वा मधुपुरं प्रविश्य च दशाननः । न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ।। ७.२५.
सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ।। ७.२५.
तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा । तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ।। ७.२५.
रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते । साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज । भर्तारं न ममेहाद्य हन्तुर्महसि मानद ।। ७.२५.
न हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते । भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ।। ७.२५.
सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् । त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम् ।। ७.२५.
रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् । क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ।। ७.२५.
सह तेन गमिष्यामि सुरलोकं जयावहे । तव कारुण्यसौहार्दान्निवृत्तो ऽस्मि मधोर्वधात् ।। ७.२५.
इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् । अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः ।। ७.२५.
एष प्राप्तो दशग्रीवो मम भ्राता महाबलः । सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ।। ७.२५.
तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस । स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ।। ७.२५.
तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ।। ७.२५.
ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः । पूजयमास धर्मेण रावणं राक्षसाधिपम् ।। ७.२५.
प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् । तत्र चैकां निशामुष्य गमनायोपचक्रमे ।। ७.२५.
ततः कैलासमासाद्य शैलं वैश्रवणालयम् । राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ।। ७.२५.
स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् । अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ।। ७.२६.
उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि । प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ।। ७.२६.
रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि । स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान् ।। ७.२६.
कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा । पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ।। ७.२६.