तत्र ते वचनं शूरः करिष्यति सदा खरः । रक्षसां कामरूपाणां प्रभुरेष भविष्यति ।। ७.२४.
एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह । चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ।। ७.२४.
स तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः । आगच्छत खरः शीघ्रं दण्डकानकुतोभयः ।। ७.२४.
स तत्र कारयामास राज्यं निहतकण्टकम् । सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ।। ७.२४.
स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् । भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् ।। ७.२५.
ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् । तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ।। ७.२५.
ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् । ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव ।। ७.२५.
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् । ददर्श स्वसुतं तत्र मेघनादं भयावहम् ।। ७.२५.
तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः । अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ।। ७.२५.
उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये । रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ।। ७.२५.
अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् । यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः ।। ७.२५.
अग्निष्टोमो ऽश्वमेधश्च यज्ञो बहुसुवर्णकः । राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा ।। ७.२५.
माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे । वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ।। ७.२५.
कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् । मायां च तामसीं नाम यया सम्पद्यते तमः ।। ७.२५.
एतया किल सङ्ग्रामे मायया राक्षसेश्वर । प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः ।। ७.२५.
अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् । अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे ।। ७.२५.
एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्ते ऽयं दशानन । अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुस्स्थितो ह्यहम् ।। ७.२५.
ततो ऽब्रवीदृशग्रीवो न शोभनमिदं कृतम् । पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ।। ७.२५.
एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः । आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ।। ७.२५.
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः । स्त्रियो ऽवतारयामास सर्वास्ता बाष्पगद्गदाः ।। ७.२५.
लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् । तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत् ।। ७.२५.
ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः । धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ।। ७.२५.
ज्ञातींस्तान्धर्षयित्वेमास्त्वया ऽ ऽनीता वराङ्गनाः । त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ।। ७.२५.
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् । को ऽयं यस्तु त्वया ऽ ऽख्यातो मधुरित्येव नामतः ।। ७.२५.
विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् । श्रूयतामस्य पापस्य कर्मणः फलमागतम् ।। ७.२५.
मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः । माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ।। ७.२५.
पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यको ऽभवत् । तस्य कुम्भीनसी नाम दुहितुर्दुहिता ऽभवत् ।। ७.२५.
मातृष्वसुरथास्माकं सा च कन्या ऽनलोद्भवा । भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा ।। ७.२५.
सा हृता, मधुना राजन्राक्षसेन बलीयसा । यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ।। ७.२५.
कुम्भकर्णे महाराज निद्रामनुभवत्यथ । निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान् ।। ७.२५.