अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते । सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः ।। ७.२४.
इदं त्वसदृशं कर्म परदाराभिमर्शनम् । यस्मादेष परक्यासु रमते राक्षसाधमः ।। ७.२४.
तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् । सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते ।। ७.२४.
नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च । शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ।। ७.२४.
पतिव्रताभिः साध्वीभिर्बभूव विमना इव । एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः । प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ।। ७.२४.
एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी । सहसा पतिता भूमौ भगिनी रावणस्य सा ।। ७.२४.
तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् । अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम् ।। ७.२४.
सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् । कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात् ।। ७.२४.
एते राजंस्त्वया वीरा दैत्या विनिहता रणे । कालकेया इति ख्याताः सहस्राणि चतुर्दश ।। ७.२४.
प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः ।। ७.२४.
सो ऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना । त्वया ऽस्मि निहता राजन्स्वयमेव हि बन्धुना ।। ७.२४.
राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् । ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि । स त्वया निहतो युद्धे स्वयमेव न लज्जसे ।। ७.२४.
एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया । अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ।। ७.२४.
अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः । दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ।। ७.२४.
युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान् । नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ।। ७.२४.
जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः । तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः ।। ७.२४.
अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् । भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ।। ७.२४.
चतुर्दशानां भ्राता ते सहस्राणां भविष्यति । प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ।। ७.२४.
तत्र मातृष्वसेयस्ते भ्राता ऽयं वै खरः प्रभुः । भविष्यति तवादेशं सदा कुर्वन्निशाचरः ।। ७.२४.
शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् । दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः ।। ७.२४.
तत्र ते वचनं शूरः करिष्यति सदा खरः । रक्षसां कामरूपाणां प्रभुरेष भविष्यति ।। ७.२४.
एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह । चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ।। ७.२४.
स तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः । आगच्छत खरः शीघ्रं दण्डकानकुतोभयः ।। ७.२४.
स तत्र कारयामास राज्यं निहतकण्टकम् । सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ।। ७.२४.
स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् । भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् ।। ७.२५.
ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् । तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ।। ७.२५.
ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् । ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव ।। ७.२५.
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् । ददर्श स्वसुतं तत्र मेघनादं भयावहम् ।। ७.२५.
तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः । अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ।। ७.२५.
उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये । रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ।। ७.२५.