राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः । हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ।। ७.२३.
आगतस्तु पथा येन तेनैव विनिवृत्य सः । लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ।। ७.२३.
निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् । जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ।। ७.२४.
दर्शनीयां हि रक्षः स कन्यां स्त्रीं वापि पश्यति । हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ।। ७.२४.
एवं पन्नगकन्याश्च राक्षसासुरमानुषीः । यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत् ।। ७.२४.
ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् । तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् ।। ७.२४.
ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः । आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ।। ७.२४.
नागगन्धर्वकन्याश्च महर्षितनयाश्च याः । दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन् ।। ७.२४.
दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः । पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ।। ७.२४.
रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः । स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ।। ७.२४.
शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः । तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् ।। ७.२४.
अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् । दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ।। ७.२४.
दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव । काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ।। ७.२४.
काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् । इति मातृपितऽन्स्मृत्वा भर्तऽन्भ्रातऽंस्तथैव च । दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ।। ७.२४.
कथं नु खलु मे पुत्रो भविष्यति मया विना । कथं माता कथं भ्राता निमग्नाः शोकसागरे ।। ७.२४.
हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना । मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ।। ७.२४.
किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।। ७.२४.
एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे । न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ।। ७.२४.
अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः । यद्दुर्बला बलवता भर्तारो रावणेन नः ।। ७.२४.
सूर्येणोदयता काले नक्षत्राणीव नाशिताः । अहो सुबलवद्रक्षो वधोपायेषु युज्यते ।। ७.२४.
अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते । सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः ।। ७.२४.
इदं त्वसदृशं कर्म परदाराभिमर्शनम् । यस्मादेष परक्यासु रमते राक्षसाधमः ।। ७.२४.
तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् । सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते ।। ७.२४.
नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च । शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ।। ७.२४.
पतिव्रताभिः साध्वीभिर्बभूव विमना इव । एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः । प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ।। ७.२४.
एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी । सहसा पतिता भूमौ भगिनी रावणस्य सा ।। ७.२४.
तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् । अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम् ।। ७.२४.
सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् । कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात् ।। ७.२४.
एते राजंस्त्वया वीरा दैत्या विनिहता रणे । कालकेया इति ख्याताः सहस्राणि चतुर्दश ।। ७.२४.
प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः ।। ७.२४.