ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः । शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ।। ७.२३.
ततस्तेनैव सहसा सीदन्ति स्म पदातयः । मुसलानि विचित्राणि ततो भल्लशतानि च ।। ७.२३.
पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा । पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ।। ७.२३.
अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः । महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ।। ७.२३.
सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः । ननाद रावणो हर्षान्महानम्बुधरो यथा ।। ७.२३.
ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् । नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ।। ७.२३.
ततस्ते विमुखाः सर्वे पतिता धरणीतले । रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ।। ७.२३.
तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ।। ७.२३.
रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः । गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ।। ७.२३.
गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि । तत्किं तव वृथा वीर परिश्रम्य गते नृपे । ये तु सन्निहिता वीराः कुमारास्ते पराजिताः ।। ७.२३.
राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः । हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ।। ७.२३.
आगतस्तु पथा येन तेनैव विनिवृत्य सः । लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ।। ७.२३.
निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् । जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ।। ७.२४.
दर्शनीयां हि रक्षः स कन्यां स्त्रीं वापि पश्यति । हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ।। ७.२४.
एवं पन्नगकन्याश्च राक्षसासुरमानुषीः । यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत् ।। ७.२४.
ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् । तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् ।। ७.२४.
ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः । आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ।। ७.२४.
नागगन्धर्वकन्याश्च महर्षितनयाश्च याः । दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन् ।। ७.२४.
दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः । पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ।। ७.२४.
रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः । स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ।। ७.२४.
शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः । तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् ।। ७.२४.
अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् । दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ।। ७.२४.
दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव । काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ।। ७.२४.
काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् । इति मातृपितऽन्स्मृत्वा भर्तऽन्भ्रातऽंस्तथैव च । दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ।। ७.२४.
कथं नु खलु मे पुत्रो भविष्यति मया विना । कथं माता कथं भ्राता निमग्नाः शोकसागरे ।। ७.२४.
हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना । मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ।। ७.२४.
किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।। ७.२४.
एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे । न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ।। ७.२४.
अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः । यद्दुर्बला बलवता भर्तारो रावणेन नः ।। ७.२४.
सूर्येणोदयता काले नक्षत्राणीव नाशिताः । अहो सुबलवद्रक्षो वधोपायेषु युज्यते ।। ७.२४.