यथा दशरथस्येयं तथायोध्या पुरी मम। प्रभुत्वे नास्ति संदेहो यथार्हं कर्तुमर्हथ
तथा ब्रुवति वैदेहे जनके रघुनन्दनः। राजा दशरथो हृष्टः प्रत्युवाच महीपतिम्
युवामसंख्येयगुणौ भ्रातरौ मिथिलेश्वरौ। ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिताः
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामः स्वमालयम्। श्राद्धकर्माणि विधिवद्विधास्य इति चाब्रवीत्
तमापृष्ट्वा नरपतिं राजा दशरथस्तदा। मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः। प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम्
गवां शतसहस्रं च ब्राह्मणेभ्यो नराधिपः। एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः
सुवर्णशृङ्ग्यः सम्पन्नाः सवत्साः कांस्यदोहनाः। गवां शतसहस्राणि चत्वारि पुरुषर्षभः
वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः। ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः
स सुतैः कृतगोदानैर्वृतः सन्नृपतिस्तदा। लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः
thumb|त्रिसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम्। तस्मिंस्तु दिवसे वीरो युधाजित् समुपेयिवान्
पुत्रः केकयराजस्य साक्षाद्भरतमातुलः। दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत्
केकयाधिपती राजा स्नेहात् कुशलमब्रवीत्। येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम्
स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः। तदर्थमुपयातोऽहमयोध्यां रघुनन्दन
श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान्। मिथिलामुपयातांस्तु त्वया सह महीपते
त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम्। अथ राजा दशरथः प्रियातिथिमुपस्थितम्
दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत्। ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः
प्रभाते पुनरुत्थाय कृत्वा कर्माणि तत्त्ववित् । ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत्
युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः। भ्रातृभिः सहितो रामः कृतकौतुकमंगलः
वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि। वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत्
राजा दशरथो राजन् कृतकौतुकमंगलैः। पुत्रैर्नरवरश्रेष्ठो दातारमभिकाङ्क्षते
दातृप्रतिग्रहीतृभ्यां सर्वार्थाः सम्भवन्ति हि। स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम्
इत्युक्तः परमोदारो वसिष्ठेन महात्मना। प्रत्युवाच महातेजा वाक्यं परमधर्मवित्
कः स्थितः प्रतिहारो मे कस्याज्ञां सम्प्रतीक्षते। स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव
कृतकौतुकसर्वस्वा वेदिमूलमुपागताः। मम कन्या मुनिश्रेष्ठ दीप्ता बह्नेरिवार्चिषः
सद्योऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः। अविघ्नं क्रियतां सर्वं किमर्थं हि विलम्ब्यते
तद् वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा। प्रवेशयामास सुतान् सर्वानृषिगणानपि
ततो राजा विदेहानां वसिष्ठमिदमब्रवीत्। कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक
रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो। तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः