यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः । अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ।। ७.२३.
यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः । प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ।। ७.२३.
प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः । ततो धाराशताकीर्णं शारदाभ्रनिभं तदा । नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ।। ७.२३.
ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः । अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् ।। ७.२३.
युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् । वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः ।। ७.२३.
एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः । पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ।। ७.२३.
ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः । युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ।। ७.२३.
ततो युद्धं समभवद्दारुणं रोमहर्षणम् । सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ।। ७.२३.
अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः । वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ।। ७.२३.
समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा । अर्दिताः शरजालेन निवृत्ता रणकर्मणः ।। ७.२३.
महीतलगतास्ते तु रावणं दृश्य पुष्पके । आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ।। ७.२३.
महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् । आकाशयुद्धं तुमुलं देवदानवयोरिव ।। ७.२३.
ततस्ते रावणं युद्धे शरैः पावकसन्निभैः । विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान् ।। ७.२३.
ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् । त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ।। ७.२३.
तेन ते दारुणा युद्धे कामगाः पवनोपमाः । महोदरेण गदया हता वै प्रययुः क्षितिम् ।। ७.२३.
तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान् । मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ।। ७.२३.
ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः । महोदरेण निहताः पतिताः पृथिवीतले ।। ७.२३.
ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः । आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ।। ७.२३.
धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् । रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ।। ७.२३.
सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः । दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम् ।। ७.२३.
ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः । शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ।। ७.२३.
ततस्तेनैव सहसा सीदन्ति स्म पदातयः । मुसलानि विचित्राणि ततो भल्लशतानि च ।। ७.२३.
पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा । पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ।। ७.२३.
अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः । महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ।। ७.२३.
सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः । ननाद रावणो हर्षान्महानम्बुधरो यथा ।। ७.२३.
ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् । नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ।। ७.२३.
ततस्ते विमुखाः सर्वे पतिता धरणीतले । रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ।। ७.२३.
तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ।। ७.२३.
रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः । गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ।। ७.२३.
गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि । तत्किं तव वृथा वीर परिश्रम्य गते नृपे । ये तु सन्निहिता वीराः कुमारास्ते पराजिताः ।। ७.२३.