रावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह । तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ।। ७.२२.
ततो महाशक्तिशरैः पात्यमानैर्महोरसि (पात्यमानो) । नाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ।। ७.२२.
एवं नानाप्रहरणैर्यमेनामित्रकर्षिणा । सप्तरात्रं कृतः सङ्ख्ये विसञ्ज्ञो विमुखो रिपुः ।। ७.२२.
तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः । जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ।। ७.२२.
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ।। ७.२२.
संवर्त इव लोकानां क्रुध्यतोरभवत्तदा । राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ।। ७.२२.
राक्षसेन्द्रो ऽपि विस्फार्य चापमिन्द्राशनिप्रभम् । निरन्तरमिवाकाशं कुर्वन्बाणांस्ततो ऽसृजत् ।। ७.२२.
मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत् । यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ।। ७.२२.
ततः क्रुद्धस्य वदनाद्यमस्य समजायत । ज्वालामाली सनिःश्वासः सधूमः कोपपावकः ।। ७.२२.
तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ । प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ।। ७.२२.
ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत । मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् । नैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः ।। ७.२२.
हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा । विसन्धिर्धूमकेतुश्च बलिर्वैरोचनो ऽपि च ।। ७.२२.
दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च । राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ।। ७.२२.
ऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः । युगान्तपरिवर्ते च पृथिवी समहार्णवा ।। ७.२२.
क्षयं नीता महाराज सपर्वतसरिद्द्रुमा । एते चान्ये च बहवो बलवन्तो दुरासदाः ।। ७.२२.
विनिपन्ना मया दृष्टाः किमुतायं निशाचरः ।। ७.२२.
मुञ्चं मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् । नहि कश्चिन्मया दृष्टो बलवानपि जीवति ।। ७.२२.
बलं मम न खल्वेतन्मर्यादैषा निसर्गतः । स दृष्टो न मया कालं मुहुर्तमापि जीवति ।। ७.२२.
तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् । अब्रवीत्तत्र तं मुत्युं त्वं तिष्ठैनं निहन्म्यहम् ।। ७.२२.
ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः । कालदण्डममोघं तु तोलयामास पाणिना ।। ७.२२.
यस्य पार्श्वेषु निखिला कालपाशाः प्रतिष्ठिताः । पावकाशनिसङ्काशो मुद्गरो मूर्तिमान्स्थितः ।। ७.२२.
दर्शनादेव यः प्राणान्प्राणिनामपकर्षति । किं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः ।। ७.२२.
स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् । तेन स्पृष्टो बलवता महाप्रहरणो ऽस्फुरत् ।। ७.२२.
ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे । सुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ।। ७.२२.
तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् । यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ।। ७.२२.
वैवस्वत महाबाहो न खल्वमितविक्रम । न हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ।। ७.२२.
वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव । स त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ।। ७.२२.
यो हि मामनृतं कुर्याद्देवो वा मानुषो ऽपि वा । त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ।। ७.२२.
क्रुद्धेन विप्रमुक्तो ऽयं निर्विशेषं प्रियाप्रिये । प्रजाः संहरते रौद्रो लोकत्रयभयावहः ।। ७.२२.
अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः । कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ।। ७.२२.