येन सङ्क्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् । कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् । यमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत् ।। ७.२२.
तस्य पार्श्वेषु निच्छिद्राः कालपाशाः प्रतिष्ठिताः ।। ७.२२.
पावकस्पर्शसङ्काशः स्थितो मूर्तश्च मुद्गरः ।। ७.२२.
ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः । कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ।। ७.२२.
ततः प्रचोदयन्सूतस्तानश्वान्रुचिरप्रभान् । प्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ।। ७.२२.
मुहूर्तेन यमं ते तु हया हरिहयोपमाः । प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ।। ७.२२.
दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् । सचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ।। ७.२२.
लघुसत्त्वतया ते हि नष्टसञ्ज्ञा भयार्दिताः । नेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ।। ७.२२.
स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् । नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ।। ७.२२.
स तु रावणमासाद्य व्यसृजच्छक्तितोमरान् । यमो मर्माणि सङ्क्रुद्धो रावणस्योपकृन्तत ।। ७.२२.
रावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह । तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ।। ७.२२.
ततो महाशक्तिशरैः पात्यमानैर्महोरसि (पात्यमानो) । नाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ।। ७.२२.
एवं नानाप्रहरणैर्यमेनामित्रकर्षिणा । सप्तरात्रं कृतः सङ्ख्ये विसञ्ज्ञो विमुखो रिपुः ।। ७.२२.
तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः । जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ।। ७.२२.
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ।। ७.२२.
संवर्त इव लोकानां क्रुध्यतोरभवत्तदा । राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ।। ७.२२.
राक्षसेन्द्रो ऽपि विस्फार्य चापमिन्द्राशनिप्रभम् । निरन्तरमिवाकाशं कुर्वन्बाणांस्ततो ऽसृजत् ।। ७.२२.
मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत् । यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ।। ७.२२.
ततः क्रुद्धस्य वदनाद्यमस्य समजायत । ज्वालामाली सनिःश्वासः सधूमः कोपपावकः ।। ७.२२.
तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ । प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ।। ७.२२.
ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत । मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् । नैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः ।। ७.२२.
हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा । विसन्धिर्धूमकेतुश्च बलिर्वैरोचनो ऽपि च ।। ७.२२.
दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च । राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ।। ७.२२.
ऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः । युगान्तपरिवर्ते च पृथिवी समहार्णवा ।। ७.२२.
क्षयं नीता महाराज सपर्वतसरिद्द्रुमा । एते चान्ये च बहवो बलवन्तो दुरासदाः ।। ७.२२.
विनिपन्ना मया दृष्टाः किमुतायं निशाचरः ।। ७.२२.
मुञ्चं मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् । नहि कश्चिन्मया दृष्टो बलवानपि जीवति ।। ७.२२.
बलं मम न खल्वेतन्मर्यादैषा निसर्गतः । स दृष्टो न मया कालं मुहुर्तमापि जीवति ।। ७.२२.
तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् । अब्रवीत्तत्र तं मुत्युं त्वं तिष्ठैनं निहन्म्यहम् ।। ७.२२.
ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः । कालदण्डममोघं तु तोलयामास पाणिना ।। ७.२२.