क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः । रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ।। ७.२०.
मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः । मोहितो ऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ।। ७.२०.
अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् । जित एव त्वया सौम्य मर्त्यलोको न संशयः ।। ७.२०.
अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् । तन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ।। ७.२०.
तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः । एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा । अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ।। ७.२०.
महर्षे देवगन्धर्वविहार समरप्रिय । अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ।। ७.२०.
ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे । समुद्रममृतार्थं च मथिष्यामि रसालयम् ।। ७.२०.
अथाब्रवीदृशग्रीवं नारदो भगवानृषिः । क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ।। ७.२०.
अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति । मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ।। ७.२०.
स तु शारदमेघाभं हासं मुक्त्वा दशाननः । उवाच कृतमित्येव वचनं चेदमब्रवीत् ।। ७.२०.
तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः । गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ।। ७.२०.
मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना । अवजेष्यामि चतुरो लोकपालानिति प्रभो ।। ७.२०.
तदिह प्रस्थितो ऽहं वै प्रेतराजपुरं प्रति । प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ।। ७.२०.
एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च । प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ।। ७.२०.
नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः । चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ।। ७.२०.
येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः । क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ।। ७.२०.
स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः । लब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः ।। ७.२०.
यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः । तं कथं राक्षसेन्द्रो ऽसौ स्वयमेव गमिष्यति ।। ७.२०.
यो विधाता च धाता च सुकृतं दुष्कृतं तथा । त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ।। ७.२०.
अपरं किन्तु कृत्वायं विधानं संविधास्यति । कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ।। ७.२०.
विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ।। ७.२०.
एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः । आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ।। ७.२१.
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् । विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ।। ७.२१.
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् । अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ।। ७.२१.
कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति । किमागमनकृत्यं ते देवगन्धर्वसेवित ।। ७.२१.
अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः । श्रूयतामभिधास्यामि विधानं च विधीयताम् ।। ७.२१.
एष नाम्नो दशग्रीवः पितृराज निशाचरः । उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ।। ७.२१.
एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो । दण्डप्रहरणस्याद्य तव किं नु भविष्यति ।। ७.२१.
एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् । ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः ।। ७.२१.
तं देशं प्रभया तस्य पुष्पकस्य महाबलः । कृत्वा वितिमिरं सर्वं समीपं सो ऽभ्यवर्तत ।। ७.२१.