प्राणश्यत तदा सर्वं हव्यं हुतमिवानले । युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ।। ७.१९.
प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम् । प्राविशत्सङ्कुलं तत्र शलभा इव पावकम् । नश्यति स्म बलं तत्र हव्यं हुतमिवानले ।। ७.१९.
सो ऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् । महार्णवं समासाद्य वनापगशतं यथा ।। ७.१९.
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् । आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ।। ७.१९.
अनरण्येन ते ऽमात्या मारीचशुकसारणाः । प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ।। ७.१९.
ततो बाणशतान्यष्टौ पातयामास मूर्धनि । तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ।। ७.१९.
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् । वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ।। ७.१९.
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा । तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ।। ७.१९.
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः । वज्रदग्ध इवारण्ये सालो निपतितो यथा ।। ७.१९.
तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम् । किमिदानीं फलं प्राप्तं त्वया मां प्रति युद्ध्यता ।। ७.१९.
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप । शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ।। ७.१९.
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् । किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ।। ७.१९.
नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना । कालेनैव विपन्नो ऽहं हेतुभूतस्तु मे भवान् ।। ७.१९.
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये । नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः ।। ७.१९.
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस । यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ७.१९.
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् । रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ।। ७.१९.
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः । तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ।। ७.१९.
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् । स्वर्गते च नृपे तस्मिन्राक्षसः सो ऽपसर्पत ।। ७.१९.
ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः । आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ।। ७.२०.
तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः । अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च ।। ७.२०.
नारदस्तु महातेजा देवर्षिरमितप्रभः । अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ।। ७.२०.
राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत । प्रीतो ऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव ।। ७.२०.
विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः । त्वया समं विमर्दैश्च भृशं हि परितोषितः ।। ७.२०.
किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि । श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम । तन्मे निगदतस्तात समाधिं श्रवणे कुरु ।। ७.२०.
किमयं वध्यते तात त्वया ऽवध्येन दैवतैः । हत एव ह्ययं लोको यदा मृत्युवशं गतः ।। ७.२०.
्तम । देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् । अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ।। ७.२०.
नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम् । हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ।। ७.२०.
तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः । मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ।। ७.२०.
क्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः । विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ।। ७.२०.
पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् । मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ।। ७.२०.