तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् । वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ।। ७.१८.
रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः । ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ।। ७.१८.
हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् । प्रीतो ऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ।। ७.१८.
इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति । वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् । एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ।। ७.१८.
नीलाः किल पुरा बर्हा मयूराणां नराधिप । सुराधिपाद्वरं प्राप्य गताः सर्वे ऽपि बर्हिणः ।। ७.१८.
धर्मराजो ऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् । पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ।। ७.१८.
यथान्ये विविधै रोगै; पीड्यन्ते प्राणिनो मया । ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ।। ७.१८.
मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम । यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ।। ७.१८.
एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः । त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ।। ७.१८.
वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् । श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ।। ७.१८.
वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः । भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ।। ७.१८.
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि । प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ।। ७.१८.
हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः । पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ।। ७.१८.
अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् । हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ।। ७.१८.
सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् । एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ।। ७.१८.
एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः । निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ।। ७.१८.
अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः । नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ।। ७.१९.
समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् । अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ।। ७.१९.
निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः । अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ।। ७.१९.
ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः । मन्त्रयित्वा ततो ऽन्योन्यं राजानः सुमहाबलाः । निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ।। ७.१९.
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः । एते सर्वे ऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ।। ७.१९.
अथायोध्यां समासाद्य रावणो राक्षसाधिपः ।। ७.१९.
सुगुप्तामनरण्येन शक्रेणेवामरावतीम् । स तं पुरुषशार्दूलं पुरन्दरसमं बले ।। ७.१९.
प्राह राजानमासाद्य युद्धं देहीति रावणः । निर्जितो ऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् ।। ७.१९.
अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः । अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत् ।। ७.१९.
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया । सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ।। ७.१९.
अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् । निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ।। ७.१९.
नागानां दशसाहस्रं वाजिनां नियुतं तथा । रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ।। ७.१९.
महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे । ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ।। ७.१९.
अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् । तद्रावणबलं प्राप्य बलं तस्य महीपतेः ।। ७.१९.