एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् । पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ।। ७.१७.
पुनरेव समुद्भूता पद्मे पद्मसमप्रभा । तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ।। ७.१७.
कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ । प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ।। ७.१७.
लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् । गृहस्थैषां हि सुश्रोणी त्वद्वधायैव दृश्यते ।। ७.१७.
एतच्छ्रुत्वा ऽर्णवे राम तां प्रचिक्षेप रावणः । सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा ।। ७.१७.
राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती । सैषा जनकराजस्य प्रसूता तनया प्रभो । तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ।। ७.१७.
पूर्वं क्रोधाहितः शत्रुर्यया ऽसौ निहतस्तथा । उपाश्रयित्वा शैलभस्तव वीर्यममानुषम् ।। ७.१७.
एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः । क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ।। ७.१७.
एषा वेदवती नाम पूर्वमासीत्कृते युगे । त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ।। ७.१७.
उत्पन्ना मैथिलकुले जनकस्य महात्मनः । सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ।। ७.१७.
प्रविष्टायां हुताशं तु वेदवत्यां स रावणः । पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ।। ७.१८.
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । उशीरबीजमासाद्य ददर्श स तु रावणः ।। ७.१८.
संवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः । याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ।। ७.१८.
दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् । तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ।। ७.१८.
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः । कृकलासो धनाध्यक्षो हंसश्च वरुणो ऽभवत् ।। ७.१८.
अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन । रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ।। ७.१८.
तं च राजानमासाद्य रावणो राक्षसाधिपः । प्राह युद्धं प्रयच्छेति निर्जितो ऽस्मीति वा वद ।। ७.१८.
ततो मरुत्तो नृपतिः को भवानित्युवाच तम् । अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ।। ७.१८.
अकुतूहलभावेन प्रीतो ऽस्मि तव पार्थिव । धनदस्यानुजं यो मां नावगच्छसि रावणम् ।। ७.१८.
त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् । भ्रातरं येन निर्जित्य विमानमिदमाहृतम् । ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ।। ७.१८.
धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः । न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते ।। ७.१८.
नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम् । कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ।। ७.१८.
क त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् । श्रूतपूर्वं हि न मया भाषसे यादृशं स्वयम् ।। ७.१८.
तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते । अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ।। ७.१८.
ततः शरासनं गृह्य सायकांश्च नराधिपः । रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ।। ७.१८.
सो ऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः । श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः ।। ७.१८.
माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ।। ७.१८.
दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः । संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ।। ७.१८.
स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः । विसृज्य सशरं चापं स्वस्थो मखमुखो ऽभवत् ।। ७.१८.
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः । रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ।। ७.१८.