महीध्रकसुतो राजा कीर्तिरातो महाबलः। कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत। स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत
तस्य पुत्रद्वयं राज्ञो धर्मज्ञस्य महात्मनः। ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य पिता मम। कुशध्वजं समावेश्य भारं मयि वनं गतः
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम्। भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम्
कस्यचित्त्वथ कालस्य सांकाश्यादागतः पुरात्। सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः
स च मे प्रेषयामास शैवं धनुरनुत्तमम्। सीता च कन्या पद्माक्षी मह्यं वै दीयतामिति
तस्याप्रदानान्महर्षे युद्धमासीन्मया सह। स हतोऽभिमुखो राजा सुधन्वा तु मया रणे
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्। सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम्
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने। ददामि परमप्रीतो वध्वौ ते मुनिपुंगव
सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय वै। वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम्
द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः। ददामि परमप्रीतो वध्वौ ते मुनिपुंगव
रामलक्ष्मणयो राजन् गोदानं कारयस्व ह। पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु
मघा ह्यद्य महाबाहो तृतीयदिवसे प्रभो। फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु। रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम्
thumb|द्विसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विसप्ततितमः सर्गः ॥१-
तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः। उवाच वचनं वीरं वसिष्ठसहितो नृपम्
अचिन्त्यान्यप्रमेयाणि कुलानि नरपुंगव। इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन
सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा। रामलक्ष्मणयो राजन् सीता चोर्मिलया सह
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम। भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः
अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि। सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः। वरये ते सुते राजंस्तयोरर्थे महात्मनोः
पुत्रा दशरथस्येमे रूपयौवनशालिनः। लोकपालसमाः सर्वे देवतुल्यपराक्रमाः
उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम्। इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः
विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा। जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुंगवौ
कुलं धन्यमिदं मन्ये येषां तौ मुनिपुंगवौ। सदृशं कुलसम्बन्धं यदाज्ञापयतः स्वयम्
एवं भवतु भद्रं वः कुशध्वजसुते इमे। पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ
एकाह्ना राजपुत्रीणां चतसॄणां महामुने। पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः। वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः
एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः। उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत्
परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोस्तथा। इमान्यासनमुख्यानि आस्यतां मुनिपुंगवौ