विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम् । अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ।। ७.१६.
किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् । पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ।। ७.१६.
ततो ऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः । नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ।। ७.१६.
अथवा पुष्पकमिदं धनदान्नान्यवाहनम् । अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ।। ७.१६.
इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः । वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ।। ७.१६.
ततः पार्श्वमुपागम्य भवस्यानुचरो ऽब्रवीत् । नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ।। ७.१६.
निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः । सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ।। ७.१६.
सर्वेषामेव भूतानामगम्यः पर्वतः कृतः । इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ।। ७.१६.
रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः । को ऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ।। ७.१६.
सो ऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् । दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ।। ७.१६.
तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः । प्रहासं मुमुचे तत्र सतोय इव तोयदः ।। ७.१६.
तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः । अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ।। ७.१६.
यस्माद्वानररूपं मामवज्ञाय दशानन । अशनीपातसङ्काशमपहासं प्रमुक्तवान् ।। ७.१६.
तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ।। ७.१६.
नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः । युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ।। ७.१६.
ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् । व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ।। ७.१६.
किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर । न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ।। ७.१६.
इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।। ७.१६.
अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः । पर्वतं तु समासाद्य वाक्यमाह दशाननः ।। ७.१६.
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः । तमिमं शैलमुन्मूलं करोमि तव गोपते ।। ७.१६.
केन प्रभावेण भवो नित्यं क्रीडति राजवत् । विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ।। ७.१६.
एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते । तोलयामास तं शीघ्रं स शैलं समकम्पत ।। ७.१६.
चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः । चचाल पार्वती चापि तदा ऽ ऽश्लिष्टा महेश्वरम् ।। ७.१६.
ततो राम महादवो देवानां प्रवरो हरः । पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ।। ७.१६.
पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः । विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ।। ७.१६.
रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा । मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ।। ७.१६.
मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये । तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ।। ७.१६.
समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः । यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ।। ७.१६.
अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् । तोषयस्व महादेवं नीलकण्ठमुमापतिम् ।। ७.१६.
तमृते शरणं नान्यं पश्यामो ऽत्र दशानन । स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।। ७.१६.