यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः । स तस्य परिणामान्ते जानीते कर्मणः फलम् ।। ७.१५.
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् । येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ।। ७.१५.
मातरं पितरं यो हि आचार्यं चावमन्यते । स पश्यति फलं तस्य प्रेतराजवशं गतः ।। ७.१५.
अध्रुवे हि शरीरे यो न करोति तपोर्जनम् । स पश्चात्तप्यते मूढो मृतो दृष्ट्वा ऽ ऽत्मनो गतिम् ।। ७.१५.
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च । तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ।। ७.१५.
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना । तस्मादात्मापघातार्थं मूढः पापं करिष्यति ।। ७.१५.
कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः । देवं चेष्टयते सर्वं हतो दैवेन हन्यते । यादृशं कुरुते कर्म तादृशं फलमश्नुते ।। ७.१५.
बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च । प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ।। ७.१५.
एवं निरयगामी त्वं यस्य ते मतिरीदृशी । न त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः ।। ७.१५.
एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः । मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ।। ७.१५.
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना । गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ।। ७.१५.
ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे । न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ।। ७.१५.
आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा । राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ।। ७.१५.
ततो मायां प्रविष्टो ऽसौ राक्षसीं राक्षसेश्वरः । रूपाणां शतसाहस्रं विनाशाय चकार च ।। ७.१५.
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः । यक्षो दैत्यस्वरूपी च सो ऽदृश्यत दशाननः ।। ७.१५.
बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः । प्रतिगृह्य ततो राम महदस्त्रं दशाननः ।। ७.१५.
जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् । एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ।। ७.१५.
कृत्तमूल इवाशोको निपपात धनाधिपः ।। ७.१५.
ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः । धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ।। ७.१५.
निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः । पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ।। ७.१५.
काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् । मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ।। ७.१५.
मनोजवं कामगमं कामरूपं विहङ्गमम् । मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ।। ७.१५.
देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् । बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ।। ७.१५.
निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् । न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ।। ७.१५.
स तं राजा समारुह्य कामगं वीर्यनिर्जितम् । जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ।। ७.१५.
जित्वा वैश्रवणं देवं कैलासात्समवातरत् ।। ७.१५.
स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् । रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः ।। ७.१५.
स जित्वा धनदं राम भ्रातरं राक्षसाधिपः । महासेनप्रसूतिं तद्ययौ शरवणं महत् ।। ७.१६.
अथापश्यदृशग्रीवो रौक्मं शरवणं महत् । गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ।। ७.१६.
स पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम् । अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा ।। ७.१६.