क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम् । रक्षसां पुरुषव्याघ्र तेन ते ऽभ्यधिका युधि ।। ७.१५.
धूम्राक्षेण समागम्य माणिभद्रो महारणे । मुसलेनोरसि क्रोधात्तडितो न च कम्पितः ।। ७.१५.
ततो गदां समाविध्य माणिभद्रेण राक्षसः । धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ।। ७.१५.
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् । अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः ।। ७.१५.
तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् । शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ।। ७.१५.
ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे । तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम् ।। ७.१५.
ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत । तदाप्रभृति यक्षो ऽसौ पार्श्वमौलिरिति स्मृतः । सन्नादः सुमहान्राजंस्तस्मिन्शैले ऽभ्यवर्तत ।। ७.१५.
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः । शुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ।। ७.१५.
स दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् । उवाच वचनं धीमान्युक्तं पैतामहे कुले ।। ७.१५.
यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते । पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ।। ७.१५.
यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः । स तस्य परिणामान्ते जानीते कर्मणः फलम् ।। ७.१५.
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् । येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ।। ७.१५.
मातरं पितरं यो हि आचार्यं चावमन्यते । स पश्यति फलं तस्य प्रेतराजवशं गतः ।। ७.१५.
अध्रुवे हि शरीरे यो न करोति तपोर्जनम् । स पश्चात्तप्यते मूढो मृतो दृष्ट्वा ऽ ऽत्मनो गतिम् ।। ७.१५.
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च । तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ।। ७.१५.
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना । तस्मादात्मापघातार्थं मूढः पापं करिष्यति ।। ७.१५.
कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः । देवं चेष्टयते सर्वं हतो दैवेन हन्यते । यादृशं कुरुते कर्म तादृशं फलमश्नुते ।। ७.१५.
बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च । प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ।। ७.१५.
एवं निरयगामी त्वं यस्य ते मतिरीदृशी । न त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः ।। ७.१५.
एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः । मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ।। ७.१५.
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना । गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ।। ७.१५.
ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे । न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ।। ७.१५.
आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा । राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ।। ७.१५.
ततो मायां प्रविष्टो ऽसौ राक्षसीं राक्षसेश्वरः । रूपाणां शतसाहस्रं विनाशाय चकार च ।। ७.१५.
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः । यक्षो दैत्यस्वरूपी च सो ऽदृश्यत दशाननः ।। ७.१५.
बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः । प्रतिगृह्य ततो राम महदस्त्रं दशाननः ।। ७.१५.
जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् । एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ।। ७.१५.
कृत्तमूल इवाशोको निपपात धनाधिपः ।। ७.१५.
ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः । धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ।। ७.१५.
निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः । पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ।। ७.१५.