अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् । रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः ।। ७.१३.
तत्र देवो मया दृष्टः सह देव्या मया प्रभुः । सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ।। ७.१३.
का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना । रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति ।। ७.१३.
देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् । रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम् ।। ७.१३.
ततो ऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् । तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ।। ७.१३.
समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः । प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ।। ७.१३.
पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् । प्रीतो ऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत ।। ७.१३.
मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप । तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम् ।। ७.१३.
व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा । तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर ।। ७.१३.
तपसा निर्जितश्चैव सखा भव ममानघ । देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम् ।। ७.१३.
एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् । एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात् ।। ७.१३.
आगत्य च श्रुतो ऽयं मे तव पापविनिश्चयः ।। ७.१३.
तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् । चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ।। ७.१३.
एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः । हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह ।। ७.१३.
विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे । नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ।। ७.१३.
हितं नैष ममैतद्धि ब्रवीति धनरक्षकः । महेश्वरसखित्वं तु मूढ श्रावयते किल ।। ७.१३.
न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया । यदेतावन्मया कालं दूत तस्य तु मर्षितम् ।। ७.१३.
न हन्तव्यो गुरुर्ज्येष्ठो मया ऽयमिति मन्यते । तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ।। ७.१३.
त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ।। ७.१३.
एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते । चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ।। ७.१३.
एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् । ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ।। ७.१३.
एवं कृतस्वस्त्ययनो रथमारुह्य रावणः । त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ।। ७.१३.
ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः । महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ।। ७.१४.
धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना । वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ।। ७.१४.
पुराणि स नदीः शैलान्वनान्युपवनानि च । अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ।। ७.१४.
सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु । युद्धे ऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ।। ७.१४.
यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः । राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ।। ७.१४.
ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम् । अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ।। ७.१४.
ततो बलानां सङ्क्षोभो व्यवर्धत महोदधेः । तस्य नैर्ऋतराजस्य शैलं सञ्चालयन्निव ।। ७.१४.
ततो युद्धं समभवद्यक्षराक्षससङ्कुलम् । व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ।। ७.१४.