वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः । तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ।। ७.१२.
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः । सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ।। ७.१२.
तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि । सरस्तदा मानसं तु ववृधे जलदागमे ।। ७.१२.
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः । सरो मा वर्धयस्वेति ततः सा सरमा ऽभवत् ।। ७.१२.
एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः । स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ।। ७.१२.
ततो मन्दोदरी पुत्रं मेघनादमजीजनत् । स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ।। ७.१२.
जातमात्रेण हि पुरा तेन रावणसूनुना । रुदता सुमहान्मुक्तो नादो जलधरोपमः ।। ७.१२.
जडीकृता च सा लङ्का तस्य नादेन राघव । पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ।। ७.१२.
सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे । रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ।। ७.१२.
मातापित्रोर्महाहर्षं जनयन्रावणात्मजः ।। ७.१२.
अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् । निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ।। ७.१३.
ततो भ्रातरमासीनं कुम्भकर्णो ऽब्रवीद्वचः । निद्रा मां बाधते राजन्कारयस्व ममालयम् ।। ७.१३.
विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् । विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ।। ७.१३.
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे । स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ।। ७.१३.
वैडूर्यकृतसोपानं किङ्किणीजालकं तथा । दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ।। ७.१३.
मनोहरं सर्वसुखं कारयामास राक्षसः । सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ।। ७.१३.
तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः । बहून्यब्दसहस्राणि शयानो न प्रबुद्ध्यते ।। ७.१३.
निद्राभिभूते तु तदा कुम्भकर्णे दशाननः । देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः ।। ७.१३.
उद्यानानि च चित्राणि नन्दनादीनि यानि च । तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः ।। ७.१३.
नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् । नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः ।। ७.१३.
तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः । कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ।। ७.१३.
सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा । लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम् ।। ७.१३.
स गत्वा नगरीं लङ्कामाससाद विभीषणम् । मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ।। ७.१३.
पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः । सभायां दर्शयामास तमासीनं दशाननम् ।। ७.१३.
स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा । जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत ।। ७.१३.
तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते । उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ।। ७.१३.
राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् । उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ।। ७.१३.
साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः । साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ।। ७.१३.
दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः । देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ।। ७.१३.
निराकृतश्च बहुशस्त्वया ऽहं राक्षसाधिप । अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः ।। ७.१३.