अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् । तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ।। ७.१२.
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः । अपृच्छत्को भवानेको निर्मनुष्यमृगे वने । अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ।। ७.१२.
मयस्तथाब्रवीद्राम पृच्छन्तं तं निशाचरम् । श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ।। ७.१२.
हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया । दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ।। ७.१२.
तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् । सा च दैवतकार्येण त्रयोदश समा गताः ।। ७.१२.
वर्षं चतुर्दशं चैव ततो हेममयं पुरम् । वज्रवैडूर्यचित्रं च मायया निर्मितं मया ।। ७.१२.
तत्राहमवसं दीनस्तया हीनः सुदुःखितः ।। ७.१२.
तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः । इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ।। ७.१२.
भर्तारमनया सार्धमस्याः प्राप्तो ऽस्मि मार्गितुम् । कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।। ७.१२.
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति । पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह ।। ७.१२.
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः । एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः ।। ७.१२.
त्वामिदानीं कथं तात जानीयां को भवानिति । एवमुक्तस्तु तद्रक्षो विनीतमिदमब्रवीत् ।। ७.१२.
अहं पौलस्त्यतनयो दशग्रीवश्च नामतः । मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणो ऽभवत् ।। ७.१२.
एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः । महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः । दातुं दुहितरं तस्मै रोचयामास यत्र वै ।। ७.१२.
करेण तु करं तस्या ग्राहयित्वा मयस्तदा । प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ।। ७.१२.
इयं ममात्मजा राजन्हेमया ऽप्सरसा धृता । कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ।। ७.१२.
बाढमित्येव तं राम दशग्रीवो ऽभ्यभाषत । प्रज्चाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम् ।। ७.१२.
स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् । विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ।। ७.१२.
अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् । परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया ।। ७.१२.
एवं सीकृतदारो वै लङ्काया ईश्वरः प्रभुः । गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ।। ७.१२.
वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः । तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ।। ७.१२.
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः । सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ।। ७.१२.
तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि । सरस्तदा मानसं तु ववृधे जलदागमे ।। ७.१२.
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः । सरो मा वर्धयस्वेति ततः सा सरमा ऽभवत् ।। ७.१२.
एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः । स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ।। ७.१२.
ततो मन्दोदरी पुत्रं मेघनादमजीजनत् । स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ।। ७.१२.
जातमात्रेण हि पुरा तेन रावणसूनुना । रुदता सुमहान्मुक्तो नादो जलधरोपमः ।। ७.१२.
जडीकृता च सा लङ्का तस्य नादेन राघव । पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ।। ७.१२.
सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे । रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ।। ७.१२.
मातापित्रोर्महाहर्षं जनयन्रावणात्मजः ।। ७.१२.