अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् । एष तात दशग्रीवो दूतं प्रेषितवान्मम ।। ७.११.
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता । मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ।। ७.११.
ब्रह्मर्षिस्त्वेवमुक्तो ऽसौ विश्रवा मुनिपुङ्गवः । प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम ।। ७.११.
दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ । मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः ।। ७.११.
स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः । श्रेयो ऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ।। ७.११.
वरप्रदानसम्मूढो मान्या ऽमान्यान् स दुर्मतिः । न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ।। ७.११.
तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् । निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः ।। ७.११.
तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी । काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका ।। ७.११.
कुमुदैरुत्पलैश्चैव तथा ऽन्यैश्च सुगन्धिभिः ।। ७.११.
तत्र देवाः सगन्धर्वाः साप्सरोरगकिंनराः । विहारशीलाः सततं रमन्ते सर्वदा ऽ ऽश्रिताः ।। ७.११.
न हि क्षमं तवानेन वैरं धनद रक्षसा । जानीषे हि यथा ऽनेन लब्धः परमको वरः ।। ७.११.
एवमुक्तो गृहीत्वा ऽ ऽशु तद्वचः पितृगौरवात् । सदारपुत्रः सामान्यः सवाहनधनो गतः ।। ७.११.
प्रहस्तो ऽथ दशग्रीवं गत्वा वचनमब्रवीत् । प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् ।। ७.११.
शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः । प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय ।। ७.११.
एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः । विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः ।। ७.११.
धनदेन परित्यक्तां सुविभक्तमहापथाम् । आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ।। ७.११.
स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः । निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ।। ७.११.
धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् । स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस्वेव तदा ऽमरावतीम् ।। ७.११.
राक्षसेन्द्रो ऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा । ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ।। ७.१२.
स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् । ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ।। ७.१२.
अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् । तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ।। ७.१२.
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः । अपृच्छत्को भवानेको निर्मनुष्यमृगे वने । अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ।। ७.१२.
मयस्तथाब्रवीद्राम पृच्छन्तं तं निशाचरम् । श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ।। ७.१२.
हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया । दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ।। ७.१२.
तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् । सा च दैवतकार्येण त्रयोदश समा गताः ।। ७.१२.
वर्षं चतुर्दशं चैव ततो हेममयं पुरम् । वज्रवैडूर्यचित्रं च मायया निर्मितं मया ।। ७.१२.
तत्राहमवसं दीनस्तया हीनः सुदुःखितः ।। ७.१२.
तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः । इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ।। ७.१२.
भर्तारमनया सार्धमस्याः प्राप्तो ऽस्मि मार्गितुम् । कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।। ७.१२.
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति । पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह ।। ७.१२.