सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया। सह तेन गरेणैव संजातः सगरोऽभवत्
सगरस्यासमञ्जस्तु असमञ्जादथांशुमान्। दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः
भगीरथात् ककुत्स्थश्च ककुत्स्थाच्च रघुस्तथा। रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः
कल्माषपादोऽप्यभवत् तस्माज्जातस्तु शङ्खणः। सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात्
शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः। मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात्
अम्बरीषस्य पुत्रोऽभून्नहुषश्च महीपतिः। नहुषस्य ययातिस्तु नाभागस्तु ययातिजः
नाभागस्य बभूवाज अजाद् दशरथोऽभवत्। अस्माद् दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ
आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्। इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम्
रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप। सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि
thumb|एकसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकसप्ततितमः सर्गः ॥१-
एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः। श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम्
प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः। वक्तव्यं कुलजातेन तन्निबोध महामते
राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा। निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः
तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः। प्रथमो जनको राजा जनकादप्युदावसुः
उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः। नन्दिवर्धसुतः शूरः सुकेतुर्नाम नामतः
सुकेतोरपि धर्मात्मा देवरातो महाबलः। देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः
बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान्। महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः
सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः। धृष्टकेतोश्च राजर्षेर्हर्यश्व इति विश्रुतः
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः। प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः। देवमीढस्य विबुधो विबुधस्य महीध्रकः
महीध्रकसुतो राजा कीर्तिरातो महाबलः। कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत। स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत
तस्य पुत्रद्वयं राज्ञो धर्मज्ञस्य महात्मनः। ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य पिता मम। कुशध्वजं समावेश्य भारं मयि वनं गतः
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम्। भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम्
कस्यचित्त्वथ कालस्य सांकाश्यादागतः पुरात्। सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः
स च मे प्रेषयामास शैवं धनुरनुत्तमम्। सीता च कन्या पद्माक्षी मह्यं वै दीयतामिति
तस्याप्रदानान्महर्षे युद्धमासीन्मया सह। स हतोऽभिमुखो राजा सुधन्वा तु मया रणे
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्। सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम्
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने। ददामि परमप्रीतो वध्वौ ते मुनिपुंगव