यत्कृते च वयं लङ्कां त्यकत्वा याता रसातलम् । तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ।। ७.११.
असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् । विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ।। ७.११.
अस्मदीया च लङ्केयं नगरी राक्षसोचिता । निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ।। ७.११.
यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ । तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ।। ७.११.
त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः । त्वया राक्षसवंशो ऽयं निमग्नो ऽपि समुद्धृतः । सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ।। ७.११.
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् । वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ।। ७.११.
साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा । किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम् ।। ७.११.
कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः । उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ।। ७.११.
प्रहस्तः प्रश्रितं वाक्यमिदमाह स कारणम् ।। ७.११.
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् । सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ।। ७.११.
अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते । भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ।। ७.११.
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् । दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान् ।। ७.११.
दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा । सपर्वता मही वीर ते ऽभवन्प्रभविष्णवः ।। ७.११.
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना । देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ।। ७.११.
नैतदेको भवानेव करिष्यति विपर्ययम् । सुरासुरैराचरितं तत्कुरुष्व वचो मम ।। ७.११.
एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना । चिन्तयित्वा मुहूर्तं वै बाढमित्येव सो ऽब्रवीत् ।। ७.११.
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् । वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ।। ७.११.
त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः । प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ।। ७.११.
प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् । वचसा मम वित्तेशं सामपूर्वमिदं वचः ।। ७.११.
इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् । त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ।। ७.११.
तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम । कृता भवेन्मम प्रीतिर्धुर्मश्चैवानुपालितः ।। ७.११.
स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् । अब्रवीत्परमोदारं वित्तपालमिदं वचः ।। ७.११.
प्रेषितो ऽहं तव भ्रात्रा दशग्रीवेण सुव्रत । त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ।। ७.११.
तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद । वचनं मम वित्तेश यद्ब्रवीति दशाननः ।। ७.११.
इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा । भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ।। ७.११.
तेन विज्ञाप्यते सो ऽयं साम्प्रतं विश्रवात्मज । तदेषा दीयतां तात याचतस्तस्य सामतः ।। ७.११.
प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः । प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ।। ७.११.
दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः । निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः ।। ७.११.
ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम । तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम् ।। ७.११.
एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ।। ७.११.