तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् । कुम्भकर्ण महाबाहो वरं वरय यो मतः ।। ७.१०.
कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् । स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ।। ७.१०.
एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् । देवी सरस्वती चैव राक्षसं तं जहौ पुनः ।। ७.१०.
ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् । विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ।। ७.१०.
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः । ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ।। ७.१०.
अहं व्यामोहितो देवैरिति मन्ये तदा ऽ ऽगतैः । एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः । श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ।। ७.१०.
सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् । उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ।। ७.११.
मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः । उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ।। ७.११.
सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः । अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ।। ७.११.
दिष्ट्या ते वत्स सम्प्राप्तश्चिन्तितो ऽयं मनोरथः । यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम् ।। ७.११.
यत्कृते च वयं लङ्कां त्यकत्वा याता रसातलम् । तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ।। ७.११.
असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् । विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ।। ७.११.
अस्मदीया च लङ्केयं नगरी राक्षसोचिता । निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ।। ७.११.
यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ । तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ।। ७.११.
त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः । त्वया राक्षसवंशो ऽयं निमग्नो ऽपि समुद्धृतः । सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ।। ७.११.
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् । वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ।। ७.११.
साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा । किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम् ।। ७.११.
कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः । उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ।। ७.११.
प्रहस्तः प्रश्रितं वाक्यमिदमाह स कारणम् ।। ७.११.
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् । सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ।। ७.११.
अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते । भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ।। ७.११.
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् । दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान् ।। ७.११.
दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा । सपर्वता मही वीर ते ऽभवन्प्रभविष्णवः ।। ७.११.
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना । देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ।। ७.११.
नैतदेको भवानेव करिष्यति विपर्ययम् । सुरासुरैराचरितं तत्कुरुष्व वचो मम ।। ७.११.
एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना । चिन्तयित्वा मुहूर्तं वै बाढमित्येव सो ऽब्रवीत् ।। ७.११.
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् । वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ।। ७.११.
त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः । प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ।। ७.११.
प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् । वचसा मम वित्तेशं सामपूर्वमिदं वचः ।। ७.११.
इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् । त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ।। ७.११.