शीघ्रं वरय धर्मज्ञ वरो यस्ते ऽभिकाङ्क्षितः । कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ।। ७.१०.
अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना । प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ।। ७.१०.
भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् । नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ।। ७.१०.
एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह । नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ।। ७.१०.
एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा । दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ।। ७.१०.
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् । अवध्यो ऽहं प्रजाध्यक्ष देवतानां च शाश्वत ।। ७.१०.
नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित । तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ।। ७.१०.
एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा । उवाच वचनं देवः सह देवैः पितामहः ।। ७.१०.
भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव । एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।। ७.१०.
शृणु चापि वरो भूयः प्रीतस्येह शुभो मम । हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ।। ७.१०.
पुनस्तानि भविष्यन्ति तथैव तव राक्षस । वितरामीह ते सौम्य वरं चान्यं दुरासदम् ।। ७.१०.
छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् । भविष्यति न सन्देहो मद्वरात्तवराक्षस ।। ७.१०.
एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः । अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ।। ७.१०.
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । विभीषणमथोवाच वाक्यं लोकपितामहः ।। ७.१०.
विभीषण त्वया वत्स धर्मसंहितबुद्धिना । परितुष्टो ऽस्मि धर्मात्मन्वरं वरय सुव्रत ।। ७.१०.
विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः । वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ।। ७.१०.
भगवन्कृतकृत्यो ऽहं यन्मे लोकगुरुः स्वयम् । प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ।। ७.१०.
परमापद्गतस्यापि धर्मे मम मतिर्भवेत् । अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ।। ७.१०.
या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च । सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ।। ७.१०.
एष मे परमोदार वरः परमको मतः । नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ।। ७.१०.
पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह । धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ।। ७.१०.
यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन । नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ।। ७.१०.
इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् । प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् ।। ७.१०.
न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया । जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ।। ७.१०.
नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश । अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ।। ७.१०.
अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु । तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ।। ७.१०.
वरव्याजेन मोहो ऽस्मै दीयताममितप्रभ । लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः ।। ७.१०.
एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् पद्मसम्भवः । चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती ।। ७.१०.
प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती । इयमस्म्यागता देव किं कार्यं करवाण्यहम् ।। ७.१०.
प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम् । वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ।। ७.१०.